Skip to main content

8.10.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 10 संनिमित्ते वरं त्यागः (क-भागः) Class- 9th, Subject - Sanskrit, Lesson-9 Sanimitte Varam Tyaag Bhaag - 1 NCERT - दीपकम् / Deepakam

                 8.10.2 कक्षा- अष्टमी,  विषय:- संस्कृतम्

पाठ - 10  संनिमित्ते वरं त्यागः (क-भागः) 

     Class- 9th,  Subject - Sanskrit,  

Lesson-9  Sanimitte Varam Tyaag Bhaag - 1

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः 


पाठम् आधृत्य उदाहरणानुगुणं लिखत ‘आम्’ अथवा ‘न’ –

(क) किं वीरवरः राजपुत्रः आसीत्? ____________
उत्तरम्:
 आम्

(ख) “किं ते वर्तनम्”? इति किं शूद्रकः अपृच्छत्? ____________
उत्तरम्:
 आम्

(ग) किं वीरवरं राज्ञः समीपे दौवारिकः अनयत् ? ____________
उत्तरम्: 
आम्

(घ) किं राजा शूद्रकः राजपुत्रं वीरवरं साक्षात् दृष्ट्वा एव वृत्तिम् अयच्छत् ? ____________
उत्तरम्:
 न

(ङ) किं वीरवरः स्ववेतनस्य चतुर्थं भागम् एव पत्न्यै यच्छति स्म ? ____________
उत्तरम्:
 न

(च) किं करुण – रोदन-ध्वनिं राजा श्रुतवान्? ____________
उत्तरम्:
 आम्

(छ) किं करुणरोदनध्वनिः दिवसे श्रुतः आसीत् ? ____________
उत्तरम्:
 न

(ज) किं राजलक्ष्म्या उक्तः उपायः अतीव दुःसाध्यः आसीत् ? ____________
उत्तरम्: 
आम्

(झ) किं भगवती सर्वमङ्गला उपायं संसूच्य शीघ्रमेव अदृश्या अभवत्? ____________
उत्तरम्:
 आम्

2. अधोलिखितान् प्रश्नान् पूर्णवाक्येन उत्तरत
(क) शूद्रकः कीदृशः राजा आसीत्? 
उत्तरम्: शूद्रकः महापराक्रमी, नानाशास्त्रवित्, पूतचरित्रः च राजा आसीत्। 

(ख) वीरवरः कस्य समीपं गन्तुम् इच्छति स्म? 
उत्तरम्: वीरवरः राज्ञः समीपं गन्तुम् इच्छति स्म। 

(ग) राज्ञः शूद्रकस्य ‘का ते सामग्री ?” इति प्रश्नस्य उत्तरं वीरवरः किम् अयच्छत् ?  
उत्तरम्: वीरवरः उक्तवान् – “इमौ बाहू, एषः खड्गः च मम सामग्री।” 

(घ) वीरवरः स्वगृहं कदा गच्छति स्म ? 
उत्तरम्: वीरवरः यदा राजा आदेशं ददाति तदा एव स्वगृहं गच्छति स्म। 

(ङ) वीरवरः स्ववेतनस्य अर्धं केभ्यः यच्छति स्म ? 
उत्तरम्: वीरवरः स्ववेतनस्य अर्धं देवेभ्यः यच्छति स्म। 

(च) राजलक्ष्मीः कुत्र सुखेन अवसत् ? 
उत्तरम्: राजलक्ष्मीः शूद्रकस्य भुजच्छायायां सुमहता सुखेन अवसत्। 

(छ) राजलक्ष्म्याः दुःखस्य कारणं श्रुत्वा बद्धाञ्जलिः वीरवरः किम् अवदत् ? 
उत्तरम्: वीरवरः उक्तवान् – “भगवति ! अस्त्यत्र कश्चिदुपायः येन भगवत्याः पुनः चिरवासः भवेत्?” 


3. उदाहरणानुसारं निम्नलिखितानि वाक्यानि अन्वयरूपेण लिखत

(क) आसीत् शोभावती नाम काचन नगरी ।
अन्वयः  काचित् नगरी शोभावती नाम आसीत्।

(ख) प्रतिदिनं सुवर्णशतचतुष्टयं देव !
अन्वयः हे देव! प्रतिदिनं सुवर्णशतानां चतुष्टयं भवति।

(ग) देव! दिनचतुष्टयस्य वेतनार्पणेन प्रथममवगम्यतां स्वरूपमस्य वेतनार्थिनो राजपुत्रस्य, किमुपपन्नमेतत् वेतनं न वेति।
अन्वयः हे देव! प्रथमं दिनचतुष्टयस्य वेतनस्य अर्पणेन, अयम् वेतनार्थी राजपुत्रः उपपन्नम् अस्ति वा न इति स्वरूपं अवगम्यताम्।

(घ) क्रन्दनमनुसर राजपुत्र !
अन्वयः हे राजपुत्र! त्वं क्रन्दनस्य अनुसरणं कुरु।

(ङ) अथ मन्त्रिणां वचनात् ताम्बूलदानेन नियोजितोऽसौ राजपुत्रो वीरवरो नरपतिना ।
अन्वयः अथ नरपतिना मन्त्रिणां वचनात् ताम्बूलदाने नियोजितः असौ राजपुत्रः वीरवरः।

(च) नैष गन्तुमर्हति राजपुत्र एकाकी सूचिभेद्ये तिमिरेऽस्मिन् ।
अन्वयः अस्मिन् सूचिभेद्ये तिमिरे एकाकी राजपुत्रः गन्तुं न अर्हति।

(छ) भगवति! अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति, सुचिरं जीवति च स्वामी ?
अन्वयः हे भगवति! अत्र कश्चित् उपायः अस्ति, येन भगवत्या पुनः अत्र चिरकालं वासः भवति, च स्वामी सुचिरं जीवति।

(ज) तदा पुनर्जीविष्यति राजा शूद्रको वर्षाणां शतम् ।
अन्वयः तदा राजा शूद्रकः वर्षाणां शतं पुनः जीविष्यति।

पृष्ठम् 120: प्रश्नानि

4. उदाहरणानुगुणं पाठगतानि पदानि अधिकृत्य रिक्तस्थानानि पूरयत
यथा – (1) अथैकदा = अथ + एकदा
(2) वृत्त्यर्थम् = वृत्तिः + _______
(3) कस्मादपि = _______ + अपि
(4) कोऽपि = कः + _______
(5) राजपुत्रोऽस्मि = _______ + अस्मि
(6) यथेष्टम् = यथा + _______
(7) वेतनार्पणेन = वेतन + _______
(8) तदालोक्य = _______ + आलोक्य
(9) ततोऽसौ = ततः + _______
(10) वर्तनार्थिनो = _______ + अर्थिनः
(11) तदवशिष्टं = _______ + अवशिष्टम्
(12) राजदर्शनादनन्तरं = राजदर्शनात् + _______
(13) वेत्ति = _______+ इति
(14) राजलक्ष्मीरुवाच = राजलक्ष्मीः + _______
(15) चार्द्धं = _______ + अर्धम्
(16) बहिर्नगरादालोकिता = बाहिः + _______ + आलोकिता
(17) कापि = _______ + अपि
(18) प्रत्युवाच = प्रति + _______
(19) राजलक्ष्मीरस्मि = _______ + अस्मि
(20) स्थास्यामीति = स्थास्यामि + _______
(21) भुजच्छायायां = _______ + छायायाम्
(22) अस्त्यत्र = अस्ति + _______
(23) कश्चिदुपायः = _______ + उपायः
उत्तरम्:
यथा – (1) अथैकदा = अथ + एकदा
(2) वृत्त्यर्थम् = वृत्तिः + अर्थम्
(3) कस्मादपि = कस्मात् + अपि
(4) कोऽपि = कः + अपि
(5) राजपुत्रोऽस्मि = राजपुत्रः + अस्मि
(6) यथेष्टम् = यथा + इष्टम्
(7) वेतनार्पणेन = वेतन + अर्पणेन
(8) तदालोक्य = तत् + आलोक्य
(9) ततोऽसौ = ततः + असौ
(10) वर्तनार्थिनो = वर्तन + अर्थिनः
(11) तदवशिष्टं = तत् + अवशिष्टम्
(12) राजदर्शनादनन्तरं = राजदर्शनात् + अनन्तरम्
(13) वेत्ति = वेत् + इति
(14) राजलक्ष्मीरुवाच = राजलक्ष्मीः + उवाच
(15) चार्द्धं = च + अर्धम्
(16) बहिर्नगरादालोकिता = बाहिः + नगरात् + आलोकिता
(17) कापि = का + अपि
(18) प्रत्युवाच = प्रति + उवाच
(19) राजलक्ष्मीरस्मि = राजलक्ष्मीः + अस्मि
(20) स्थास्यामीति = स्थास्यामि + इति
(21) भुजच्छायायां = भुजः + छायायाम्
(22) अस्त्यत्र = अस्ति + अत्र
(23) कश्चिदुपायः = कश्चित् + उपायः



5. अधोलिखितेषु वाक्येषु रक्तवर्णीयपदानि (रेखांकनम्) केभ्यः प्रयुक्तानि इति उदाहरणानुगुणं लिखत –
यथा – अहं “भवतः” सेवायां नियोजितः । → राज्ञे (चतुर्थी विभक्ति – ‘के लिए’)

(क) ततः “असौ” तद्रोदनस्वरानुसरणक्रमेण प्रचलितः ।
उत्तरम्: अस्मात् (पञ्चमी विभक्ति)

(ख) तत् “अहम्” अपि गच्छामि पृष्ठतोऽस्य ।
उत्तरम्: अहम्  (प्रथमा विभक्ति)

(ग) चिरम् “एतस्य” भुजच्छायायां सुमहता सुखेन निवसामि ।
उत्तरम्: एतस्य 

(घ) “सा” चातीव दुःसाध्या ।
उत्तरम्: सा (प्रथमा विभक्ति)

(ङ) किं “ते” वर्तनम् ?
उत्तरम्: ते (चतुर्थी विभक्ति)

6. अधोलिखितानि वाक्यानि पठित्वा तेन सम्बद्धं श्लोकं पाठात् चित्वा लिखत –
(क) राजलक्ष्मीः वदति यत् यदि वीरवरः स्वस्य सर्वप्रियं वस्तु त्यजति तदा सा पुनः शूद्रकस्य समीपे स्थास्यति।

उत्तरम्: परोपकाराय फलन्ति वृक्षाः परोपकाराय वहन्ति नद्यः।
परोपकाराय दुहन्ति गावः परोपकारार्थमिदं शरीरम्॥

(ख) राजा शूद्रकः प्रथमं वीरवरस्य वृत्त्यर्थं प्रार्थनां न स्वीकरोति।
उत्तरम्: कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति॥

(ग) एकदा कोऽपि वीरवरः नाम राजपुत्रः वृत्तिं प्राप्तुं राज्ञः शूद्रकस्य समीपं गच्छति।
उत्तरम्: कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे॥

(घ) सः तस्य कर्तव्यनिष्ठां साक्षात् पश्यति।
उत्तरम्: यथा छायातपौ नित्यं सुसंबद्धौ परस्परम्।
एवं कर्म च कर्ता च संश्लिष्टावितरेतरम्॥

(ङ) राजा मन्त्रिणां मन्त्रणया वीरवराय वृत्तिं यच्छति।
उत्तरम्: कार्ये कर्मणि निर्वृत्ते यो बहून्यपि साधयेत्।
पूर्वकार्याविरोधेन स कार्यं कर्तुमर्हति॥


7. अधोलिखितानां वाक्यानां पदच्छेदं कुरुत-
यथा – अथैकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मादपि देशाद् राजद्वारमुपागच्छत्।
अथ एकदा वीरवरनामा राजपुत्रः वृत्त्यर्थं कस्मात् अपि देशात् राजद्वारम् उपागच्छत्।

(क) वृत्त्यर्थमागतो राजपुत्रोऽस्मि ।
पदच्छेदः वृत्त्यर्थम् आगतः राजपुत्रः अस्मि।

(ख) अथैकदा कृष्णचतुर्दश्यामर्धरात्रे स राजा श्रुतवान् करुणरोदनध्वनिं कञ्चन ।
पदच्छेदः अथ एकदा कृष्णचतुर्दश्याम् अर्धरात्रे सः राजा श्रुतवान् करुणरोदनध्वनिम् कञ्चन।

(ग) तदहमपि गच्छामि पृष्ठतोऽस्य निरूपयामि च किमेतदिति ।
पदच्छेदः तत् अहम् अपि गच्छामि पृष्ठतः अस्य निरूपयामि च किम् एतत् इति।

(घ) अस्त्यत्र कश्चिदुपायो येन भगवत्याः पुनरिह चिरवासो भवति।
पदच्छेदः अस्ति अत्र कश्चित् उपायः येन भगवत्याः पुनः इह चिरवासः भवति।

(ङ) एकैवात्र प्रवृत्तिः सा चातीव दुःसाध्या ।
पदच्छेदः एका एव अत्र प्रवृत्तिः सा च अतीव दुःसाध्या।






Comments

Popular posts from this blog

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table/ Chart can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।...

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  ...

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।