Skip to main content

Posts

Showing posts with the label संस्कृत-कथा (Sanskrit Stories)

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः। 

वृक्षकर्तकस्य कथा (Sanskrit Story)

                           वृक्षकर्तकस्य कथा एकः वृक्षकर्तकः। सः प्रतिदिनं वनं गच्छति। वृक्षान् कर्तयति। कर्तिताः शाखाः विक्रीणीते। एवं तस्य उपजीविका चलति। एकदा सः तडागस्य समीपं वृक्षं कर्तयति। अकस्मात् तस्य परशुः तडागे पतति। तस्य उपजीविकायाः मार्गः एव नष्टः। दुःखवशात् सः उच्चैः रोदनं करोति। हा हन्त! किं करवाणि? मम जीविकायाः साधनम् एव गतम्। गृहजनान् कथं पालयामि? धनार्जनं कथं करोमि? पुत्रान् भोजनं कथं ददामि? मम जीवितम् एव नष्टम्। अधुना जीवित्वा किं करोमि? मम अपि मरणम् एव भवति चेत् वरम्! हे परमेश्वर! कृपया मम परशुं प्रत्यर्पय! नो चेत् मम प्राणान् अपि हर! तस्य वृक्षकर्तकस्य विलापं श्रुत्वा तत्र जलदेवता प्रकटीभवति। रे मानव! किम् अभवत्? किमर्थं रोदिषि? हे देव! मम परशुः जले पतितः। परशुना एव मम आजीविका चलति। परशुः एव नष्टः चेत् मम कुटुम्बं निश्चयेन बुभुक्षया मरिष्यति। मम दुर्भाग्यं दृष्ट्वा रोदिमि। तदा जलदेवता वदति - हे मानव! मा रोदनं कुरु। तिष्ठ। एवम् उक्त्वा देवता जले निमज्जति। शीघ्रम् एव सः देवता पुनः प्रकटीभवति। तस्याः ह...

कथा-वाचन (Sanskrit story/ katha)

कथा-वाचनम् (Sanskrit story/ katha) कक्षा 6, पाठ- 7  बकस्य प्रतिकार:,  प्रश्न 5-    पिपासितः काकः एकदा एकः काकः पिपासितः आसीत्। सः जलं पातुम् इतस्ततः अभ्रमत्। परं कुत्रापि जलं न प्राप्नोत्। अन्ते सः एकं घटम् अपश्यत्। घटे स्वल्पम् जलम् आसीत्। अतः सः जलम् पातुम् असमर्थः अभवत्। सः एकम् उपायम् अचिन्तयत्। सः पाषाणस्य खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। काकः जलं पीत्वा संतुष्टः अभवत्। परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः।   ------- कक्षा 7, पाठ- 2  दुर्बुद्धि विनश्यति, प्रश्न 7    काकः सर्पः कथा   एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म। काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्। वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन...