वृक्षकर्तकस्य कथा
एकः वृक्षकर्तकः। सः प्रतिदिनं वनं गच्छति। वृक्षान् कर्तयति। कर्तिताः शाखाः विक्रीणीते। एवं तस्य उपजीविका चलति।
एकदा सः तडागस्य समीपं वृक्षं कर्तयति। अकस्मात् तस्य परशुः तडागे पतति। तस्य उपजीविकायाः मार्गः एव नष्टः। दुःखवशात् सः उच्चैः रोदनं करोति।
हा हन्त! किं करवाणि? मम जीविकायाः साधनम् एव गतम्। गृहजनान् कथं पालयामि? धनार्जनं कथं करोमि? पुत्रान् भोजनं कथं ददामि? मम जीवितम् एव नष्टम्। अधुना जीवित्वा किं करोमि? मम अपि मरणम् एव भवति चेत् वरम्!
हे परमेश्वर! कृपया मम परशुं प्रत्यर्पय! नो चेत् मम प्राणान् अपि हर!
तस्य वृक्षकर्तकस्य विलापं श्रुत्वा तत्र जलदेवता प्रकटीभवति।
रे मानव! किम् अभवत्? किमर्थं रोदिषि?
हे देव! मम परशुः जले पतितः। परशुना एव मम आजीविका चलति। परशुः एव नष्टः चेत् मम कुटुम्बं निश्चयेन बुभुक्षया मरिष्यति। मम दुर्भाग्यं दृष्ट्वा रोदिमि।
तदा जलदेवता वदति -
हे मानव! मा रोदनं कुरु। तिष्ठ।
एवम् उक्त्वा देवता जले निमज्जति। शीघ्रम् एव सः देवता पुनः प्रकटीभवति। तस्याः हस्ते एकः स्वर्णपरशुः वर्तते।
अरे मनुज! स्वीकुरु तव परशुः।
न हि, न हि देव! नैषः मम परशुः। मम परशुः स्वर्णस्य नास्ति! क्षम्यताम्!
अस्तु। पुनः अन्वेषणं करोमि।
इति उक्त्वा देवता पुनः जले निमज्जति। यदा सः बहिः आगच्छति तदा तस्याः हस्ते रजतस्य परशुः अस्ति। तत् दृष्ट्वा वृक्षकर्तकः वदति।
न हि प्रभो! एषः अपि मम परशुः न अस्ति! मम परशुः तु लौहस्य। पुरातनः च।
वृक्षकर्तकस्य सदाचरणं दृष्ट्वा जलदेवता प्रसन्ना।
जलदेवता पुनः एकवारं जलं प्रविशति। सः अधुना वृक्षकर्तकस्य लौहपरशुम् आनयति।
तं परशुं दृष्ट्वा वृक्षकर्तकः आनन्दितः भवति। सः जलदेवतां बहुवारं धन्यवाद-ज्ञापनं करोति।
तदा देवता वदति -
रे सज्जन! तव आचरणं दृष्ट्वा मुदितः अस्मि। उपहाररूपेण स्वर्णस्य रजतस्य च परशुः स्वीकुरु।
स्वर्णस्य रजतस्य परशुना तव दारिद्र्यम् अपगच्छेत्। विना सङ्कोचम् इदं पुरस्कारं स्वीकुरु। कल्याणम् अस्तु।
एवम् उक्त्वा जलदेवता अन्तर्भूता।
वृक्षकर्तकः अपि सर्वान् परशून् स्वीकृत्य आनन्देन स्वगृहम् अगच्छत्।
-----------------------------
अतः अस्माभिः कदापि लोभः न करणीयः।
बहुशोभनम्
ReplyDeleteNice
ReplyDelete