एकदा एकः काकः पिपासितः आसीत्। सः जलं पातुम् इतस्ततः अभ्रमत्। परं कुत्रापि जलं न प्राप्नोत्। अन्ते सः एकं घटम् अपश्यत्। घटे स्वल्पम् जलम् आसीत्। अतः सः जलम् पातुम् असमर्थः अभवत्। सः एकम् उपायम् अचिन्तयत्। सः पाषाणस्य खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम् उपरि आगच्छत्। काकः जलं पीत्वा संतुष्टः अभवत्। परिश्रमेण एव कार्याणि सिध्यन्ति न तु मनोरथैः।
-------
कक्षा 7, पाठ- 2 दुर्बुद्धि विनश्यति,
प्रश्न 7 काकः सर्पः कथा
-------
कक्षा 7, पाठ- 2 दुर्बुद्धि विनश्यति,
प्रश्न 7 काकः सर्पः कथा
एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म। काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्। वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्। अतः एवोक्तम् -उपायेन सर्वं सिद्धयति।
-------
कक्षा 7, पाठ- 4 हास्यबालकविसम्मेलनम्
प्रश्न 6 नृप वानर कथा
-------
कक्षा 7, पाठ- 4 हास्यबालकविसम्मेलनम्
प्रश्न 6 नृप वानर कथा
पुरा एकस्य नृपस्य एकः प्रियः वानरः आसीत्। एकदा नृपः सुप्तः आसीत्। वानरः व्यजनेन तम् अवीजयत्। तदैव एका मक्षिका नृपस्य नासिकायाम् उपाविशत् । यद्यपि वानरः वारं-वारम् व्यजनेन तां निवारयति स्म तथापि सा पुनः पुनः नृपस्य नासिकायामेव उपविशति स्म। अन्ते सः मक्षिकां हन्तुं खड्गेन प्रहारम् अकरोत्। मक्षिका तु उडडीय दूरम् गता, किन्तु खड्गप्रहारेण नृपस्य नासिका छिन्ना अभवत्।
अत एवोच्यते- ‘‘मूर्खजनैः सह मित्रता नोचिता।’’
-------
कक्षा 8, पाठ- 2 बिलस्य वाणी,
प्रश्न 7 कपोतः कथा
-------
कक्षा 8, पाठ- 2 बिलस्य वाणी,
प्रश्न 7 कपोतः कथा
एकस्मिन् वने कश्चन् व्याधः जालं विस्तीर्य दूरे स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः नीचैः आगच्छत्। यदा कपोताः तण्डुलान् अपश्यन्। तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् यदि वने कोsपि मनुष्यः नास्ति। तर्हि कुतः तण्डुलानाम् सम्भवः। परम् राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले च निपतिताः। ‘अतः उक्त्तम् सहसा विदधीत न क्रियाम्’।
-------
कक्षा 8, पाठ- 5 कंटकेनैव कंटकम्
प्रश्न 5 सिंह मूषक कथा
एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्त: नाभवत्। अकस्मात् तत्र एकः मूषकः समागच्छत् बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत् -अहो! भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि। तच्छ्रुत्वा व्याघ्रः साट्टहासम् अवदत् -अरे! त्वं क्षुद्रः जीवः मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्तनम् कृत्वा तं व्याघ्रं बहिः कृतवान्।
Comments
Post a Comment