6.3.2 कक्षा -षष्टी, विषय:-संस्कृतम्, तृतीय: पाठ: (शब्दपरिचयः - 3 ) Class-6th, Subject-Sanskrit, Lesson-3 ( ShabdParichaya - 3)
6.3.2 कक्षा -षष्टी, विषय:-संस्कृतम्,
तृतीय: पाठ: (शब्दपरिचयः - 3 )
Class-6th, Subject-Sanskrit,
Lesson-3 ( ShabdParichaya - 3)
************************************
नमो नमः।
षष्ठकक्ष्यायाः रुचिरा भाग-1 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम् ।
अद्य वयं तृतीय-पाठस्य अभ्यासकार्यं कुर्म: ।
पाठस्य नाम अस्ति
शब्दपरिचयः - 3
अहं डॉ. विपिन:।
************************************
1- (क) उच्चारणं कुरुत।
फलम् गृहम् पात्रम् पुष्पम्
द्वारम् विमानम् कमलम् पुस्तकम्
सूत्रम् छत्रम् भवनम् जलम्
(ख) चित्रणि दृष्ट्वा पदानि उच्चारयत।
पर्णम् क्रीडनकम् नारिकेलम्
सङ्गणकम् वातायनम् सोपानम्
उद्यानम् उपनेत्रम् कङ्कतम्
2- (क) वर्णसंयोजनं कृत्वा पदं कोष्ठके लिखत-
यथा- प् + अ + र् + ण् + अ + म् = पर्णम्
ख् + अ + न् + इ + त् + र् + अ + म् = खनित्रम्
प् + उ + र् + आ + ण् + आ + न् + इ = पुराणानि
प् + ओ + ष् + अ + क् + आ + ण् + इ = पोषकाणि
क् + अ + ङ् + क् + अ + त् + अ + म् = कङ्कतम्
(ख) अधोलिखितानां पदानां वर्णविच्छेदं कुरुत-
यथा - व्यजनम् = व् + य् + अ + ज् + अ + न् + अ + म्
पुस्तकम् = प् + उ + स् + त् + अ + क् + अ + म्
भित्तिकम् = भ् + इ + त् + त् + इ + क् + अ + म्
नूतनानि = न् + ऊ + त् + अ + न् + आ + न् + इ
वातायनम् = व् + आ + त् + आ + य् + अ + न् + अ + म्
उपनेत्रम् = उ + प् + अ + न् + ए + त् + र् + अ + म्
3- चित्रणि दृष्ट्वा संस्कृतपदानि लिखत-
आम्रम् पर्णम् व्यजनम्
करवस्त्रम् सूत्रम् छत्रम्
4- चित्रं दृष्ट्वा उत्तरं लिखत-
किं पतति?
फलम् पतति।
मयूरौ किं कुरुतः।
मयूरौ नृत्यतः।
एते के स्तः?
एते क्रीडनके स्तः।
बालिकाः किं कुर्वन्ति?
बालिकाः पठन्ति।
कानि विकसन्ति?
पुष्पाणि विकसन्ति।
5- निर्देशानुसारं वाक्यानि रचयतु-
यथा- एतत् पतति। (बहुवचने) - एतानि पतन्ति।
एकवचन द्विवचन बहुवचन
शव्द- एतत् एते एतानि
धातु- ...ति ...त: ...अन्ति
(क) एते पर्णे स्तः। (बहुवचने) - एतानि पर्णानि सन्ति।
(ख) मयूरः नृत्यति। (बहुवचने) - मयूराः नृत्यन्ति।
(ग) एतानि यानानि। (द्विवचने) - एते याने।
(घ) छात्रे लिखतः। (बहुवचने) - छात्राः लिखन्ति।
(घ) नारिकेलं पतति। (द्विवचने) - नारिकेले पततः।
6- उचितपदानि संयोज्य वाक्यानि रचयत-
कोकिले विकसति
पवनः नृत्यन्ति
पुष्पम् उत्पतति
खगः वहति
मयूराः गर्जन्ति
सिंहाः कूजतः
उत्तरम्-
कोकिले कूजतः
पवनः वहति
पुष्पम् विकसति
खगः उत्पतति
मयूराः नृत्यन्ति
सिंहाः गर्जन्ति
Comments
Post a Comment