Skip to main content

7.2.2 कक्षा- सप्तमी, विषय:- संस्कृतम् द्वितीयः पाठः ( दुर्बुद्धिः विनश्यति) Class- 7th, Subject - Sanskrit, Lesson-2 (Durbuddhi Vinashayati)

                 7.2.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

                    द्वितीयः पाठः ( दुर्बुद्धिः विनश्यति) 

     Class- 7th,  Subject - Sanskrit,  Lesson-2

                          (Durbuddhi Vinashayati) 

       ************************************


नमो नमः। 

सप्तमीकक्ष्यायाः रुचिरा भाग-2 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्। 

अद्य वयं द्वितीय-पाठस्य अभ्यासकार्यं कुर्म: ।  

पाठस्य नाम अस्ति -   

                          दुर्बुद्धिः विनश्यति । 

अहं डॉ. विपिन:। 


       ************************************  

                   द्वितीयः पाठः - दुर्बुद्धिः विनश्यति  

                     अभ्यासः (Exercise)


प्रश्नः1-  उच्चारणं कुरुत।

फुल्लोत्पलम् अवलम्ब्य      पक्त्वा 

कम्बुग्रीवः आवाभ्याम्       भक्षयिष्यामि

उक्तवान्   ह्रदम्       सुहृदाम्

भवद्भ्याम्   उड्डीयते       भ्रष्टः


2- एकपदेन उत्तरत-

(क) कूर्मस्य किं नाम आसीत्?

उत्तरम्-  कम्बुग्रीवः ।


(ख) सरस्तीरे के आगच्छन्?

उत्तरम्- धीवराः ।


(ग) कूर्मः केन मार्गेण अन्यत्र गन्तुम् इच्छति?

उत्तरम्- आकाशमार्गेण ।


(घ) लम्बमानं कूर्मं दृष्ट्वा के अधावन्?

उत्तरम्- पौराः ।


3- अधोलिखितवाक्यानि "कः"  "कं" प्रति कथयति इति लिखत-

       कः कथयति कं प्रति कथयति

यथा- प्रातः यद् उचितं तत्कर्त्तव्यम् ।

                 हंसौ कूर्मं प्रति


(क) अहं भवद्भ्यां सह आकाशमार्गेण गन्तुम् इच्छामि।

कूर्मः हंसौ प्रति


(ख) अत्र कः उपायः?

हंसौ कूर्मंम् प्रति

 

(ग) अहम् उत्तरं न दास्यामि।

कूर्मः हंसौ प्रति


(घ) यूयं भस्म खादत।

कूर्मः  पौरान् प्रति 


4- मञ्जूषातः क्रियापदं चित्वा वाक्यानि पूरयत-


        अभिनन्दति भक्षयिष्यामः इच्छामि वदिष्यामि उड्डीयते  प्रतिवसित स्म


(क) हंसाभ्यां सह कूर्माेsपि उड्डीयते।      (उड़ता है )

(ख)  अहं किञ्चिदsपि न वदिष्यामि।    (बोलूंगा )

(ग) यः हितकामानां सुहृदां वाक्यं न अभिनन्दति।  (मानता है)

(घ) एकः कूर्मः अपि तत्रैव प्रतिवसित स्म।   (रहता था )

(घ) अहम् आकाशमार्गेण अन्यत्र गन्तुम् इच्छामि। 

(चाहता हूँ)

(च) वयं गृहं नीत्वा कूर्मं भक्षयिष्यामः।       (खाऊंगा)


5- पूर्णवाक्येन उत्तरत-

(क) कच्छपः कुत्र गन्तुम् इच्छति?

उत्तरम्- कच्छपः हंसाभ्यां सह आकाशमार्गेण अन्यत्र गन्तुम् इच्छति।


(ख) कच्छपः कम् उपायं वदति? 

उत्तरम्- कच्छपः हंसौ उपायं वदति ‘‘युवां काष्ठदण्डम् एकं चञ्चवा धारयतम्। अहं काष्ठदण्डमध्ये अवलम्ब्य युवयोः पक्षबलेन सुखेन गमिष्यामि।’’


(ग) लम्बमानं कूर्मं दृष्ट्वा पैराः किम् अवदन्?

उत्तरम्- लम्बमानं कूर्मं दृष्ट्वा पौराः अवदन् ‘‘हंहो! महत् आश्चर्यम्। हंसाभ्यां सह कूर्माेsपि उड्डीयते।’’ 


(घ) कूर्मः मित्रयोः वचनं विस्मृत्य किम् अवदत्?

उत्तरम्- कूर्मः मित्रयोः वचनं विस्मृत्य अवदत् ‘‘यूयं भस्म खादत।’’ 


6- घटनाक्रमानुसारं वाक्यानि लिखत- 

1- (ग) कूर्मः हंसौ च एकस्मिन् सरसि निवसन्ति स्म।

2- (घ) केचित् धीवराः सरस्तीरे आगच्छन्।

3- (ज) ’वयं श्वः मत्स्यकूर्मादीन् मारयिष्यामः’ इति धीवराः अकथयन्।

4- (घ) कूर्मः अन्यत्र गन्तुम् इच्छति स्म।

5- (क) कूर्मः हंसयोः सहायतया आकाशमार्गेण अगच्छत्।

6- (च) लम्बमानं कूर्मं दृष्ट्वा पौराः अधावन्।

7- (ख) पौराः अकथयन् - वयं पतितं कूर्मं खादिष्यामः।

8- (छ)- कूर्मः आकाशात् पतितः पोरैः मारितश्च।


7- मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-


जलाशयम् अचिन्तयत् वृद्धः दुःखिताः कोटरे

वृक्षस्य सर्पः आदाय समीपे


एकस्य वृक्षस्य शाखासु अनेके काकाः वसन्ति स्म। तस्य वृक्षस्य कोटरे एकः सर्पः अपि अवसत्। काकानाम् अनुपस्थितौ सर्पः काकानां शिशून् खादति स्म। काकाः दुःखिताः आसन्। तेषु एकः वृद्धः काकः उपायम् अचिन्तयत्। वृक्षस्य समीपे जलाशयः आसीत्। तत्र एका राजकुमारी स्नातुं जलाशयम् आगच्छति स्म। शिलायां स्थितं तस्याः आभरणम् आदाय एकः काकः वृक्षस्य उपरि अस्थापयत्। राजसेवकाः काकम् अनुसृत्य वृक्षस्य समीपम् अगच्छन्। तत्र ते तं सर्पं च अमारयन्। अतः एवोक्तम् -उपायेन सर्वं सिद्धयति।



7.2.1 




Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।