8.5.2 कक्षा -अष्टमी, विषय:-संस्कृतम्, पञ्चमः पाठ: (कण्टकेनैव कण्टकम् ) Class-8th, Subject-Sanskrit, Lesson-5 (kantkenaiv Kantakam) Abhyaas
8.5.2 कक्षा -अष्टमी, विषय:-संस्कृतम्,
पञ्चमः पाठ: (कण्टकेनैव कण्टकम् )
Class-8th, Subject-Sanskrit,
Lesson-5
(kantkenaiv Kantakam) Abhyaas
************************************
नमो नमः।
अष्टमकक्ष्यायाः रुचिरा भाग-3 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम् ।
अद्य वयं पञ्चम-पाठस्य अभ्यासकार्यं कुर्म: ।
पाठस्य नाम अस्ति
कण्टकेनैव कण्टकम्
अहं डॉ. विपिन:।
************************************
पञ्चमः पाठः कण्टकेनैव कण्टकम्
अभ्यास: (Exercise)
1- एकपदेन उत्तरं लिखत-
(क) व्याधस्य नाम किम् आसीत्?
उत्तरम् - चञ्चलः।
(ख) चञ्चलः व्याघ्रं कुत्र दृष्टवान्?
उत्तरम् - जाले
(ग) कस्मै किमपि अकार्यं न भवति?
उत्तरम् - क्षुधार्ताय
(घ) बदरी-गुल्मानां पृष्ठे का निलीना आसीत्?
उत्तरम् - लोमशिका
(ङ) सर्वः किं समीहते?
उत्तरम् - स्वार्थम्
(च) निःसहायो व्याध्रः किमयाचत?
उत्तरम् - प्राणभिक्षाम्
2- पूर्णवाक्येन उत्तरत-
(क) चञ्चलेन वने किं कृतम्?
उत्तरम् - चञ्चलेन वने जालं विस्तारितम्।
(ख) व्याघ्रस्य पिपासा कथं शान्ता अभवत्?
उत्तरम् - व्याघ्रस्य पिपासा नद्याः जलेन शान्ता अभवत्।
(ग) जलं पीत्वा व्याघ्रः किम् अवदत्?
उत्तरम् - जलं पीत्वा व्याघ्रः अवदत्- ‘शान्ता मे पिपासा साम्प्रतं
बुभुक्षितोsस्मि। इदानीम् अहं त्वां खादिष्यामि।’
(घ) चञ्चलः ‘मातृस्वसः!’ इति कां सम्बोधितवान्?
उत्तरम् - चञ्चलः ‘मातृस्वसः!’ इति लोमशिकां सम्बोधितवान्।
(ङ) जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः किम् अकरोत्?
उत्तरम् - जाले पुनः बद्धं व्याघ्रं दृष्ट्वा व्याधः प्रसन्नो भूत्वा गृहं प्रत्यावर्तत।
3- अधोलिखितानि वाक्यानि कः/का कं/कां प्रति कथयति-
कः/का - कं/कां
यथा - इदानीम् अहं त्वां खादिष्यामि।
व्याघ्रः (शेर ने) - व्याधम् (शिकारी को)
(क) कल्याणं भवतु ते।
व्याघ्रः - व्याधम्
(ख) जनाः मयि स्नानं कुर्वन्ति।
नदीजलम् - व्याधम्
(ग) अहं त्वत्कृते धर्मम् आचरितवान् त्वया मिथ्या भणितम् ।
व्याधः - व्याघ्रम्
(घ) यत्र कुत्रपि छेदनं कुर्वन्ति।
वृक्षः - व्याधम्
(ङ) सम्प्रति पुनः पुनः कूर्दनं कृत्वा दर्शय।
लोमशिका - व्याघ्रम्
4- रेखांकित पदमाधृत्य प्रश्ननिर्माण-
(क) व्याधः व्याघ्रं जालात् बहिः निरसारयत्। पुल्लिंग- पंचमी विभक्ति- एकवचनम्
उत्तरम् - व्याधः व्याघ्रं कस्मात् बहिः निरसारयत्?
(ख) चञ्चलः वृक्षम् उपगम्य अपृच्छत्। पुल्लिंग- द्वितीया विभक्ति- एकवचनम्
उत्तरम् - चञ्चलः कम् उपगम्य अपृच्छत्?
(ग) व्याधः लोमशिकायै निखिलां कथां न्यवेदयत्। स्त्रीलिंग- चतुर्थी विभक्ति- एकवचनम्
उत्तरम् - व्याघ्रः कस्मै निखिलां कथां न्यवेदयत्?
(घ) मानवाः वृक्षाणां छायायां विरमन्ति। पुल्लिंग- षष्ठी विभक्ति- बहुवचनम्
उत्तरम् - मानवाः केषां छायायां विरमन्ति?
(घ) व्याधः नद्याः जलेन व्याघ्रस्य पिपासामशमयत्। स्त्रीलिंग- षष्ठी विभक्ति- एकवचनम्
उत्तरम् - व्याधः कस्याः जलेन व्याघ्रस्य पिपासामशमयत्?
5- मञ्जूषातः पदानि चित्वा कथां पूरयत-
(वृद्धः, कृतवान् , अकस्मात्, दृष्ट्वा, मोचयितुम्
साटृहासम्, क्षुद्रः , तर्हि, स्वकीयैः, कर्तनम् )
वृद्धः- बूढा, कृतवान्- किया , अकस्मात्- अचानक से, दृष्ट्वा-देखकर,
मोचयितुम्- छुडाना, साटृहासम्- जोर से सहना, क्षुद्रः- छोटा , तर्हि- तो,
स्वकीयैः- अपने, कर्तनम्- काट कर
एकस्मिन् वने एकः वृद्धः व्याघ्रः आसीत्। सः एकदा व्याधेन विस्तारिते जाले बद्धः अभवत्। सः बहुप्रयासं कृतवान् किन्तु जालात् मुक्त: नाभवत्। अकस्मात् तत्र एकः मूषकः समागच्छत् बद्धं व्याघ्रं दृष्ट्वा सः तम् अवदत् -अहो! भवान् जाले बद्धः। अहं त्वां मोचयितुम् इच्छामि। तच्छ्रुत्वा व्याघ्रः साट्टहासम् अवदत् -अरे! त्वं क्षुद्रः जीवः मम सहाय्यं करिष्यसि। यदि त्वं मां मोचयिष्यसि तर्हि अहं त्वां न हनिष्यामि। मूषकः स्वकीयैः लघुदन्तैः तज्जालस्य कर्तनम् कृत्वा तं व्याघ्रं बहिः कृतवान्।
6- यथानिर्देशमुत्तरत-
(क) सः लोमशिकायै सर्वां कथां न्यवेदयत् - अस्मिन् वाक्ये विशेषणपदं किम्?
उत्तरम् - सः लोमशिकायै सर्वां कथां न्यवेदयत् - अस्मिन् वाक्ये 'सर्वाम्’ इति विशेषणपदम्।
(ख) अहं त्वत्कृते धर्मम् आचरितवान् - अत्र अहम् इति सर्वनामपदं कस्मै प्रयुक्तम्?
उत्तरम् - अहं त्वत्कृते धर्मम् आचरितवान् - अत्र अहम् इति सर्वनामपदं चञ्चलाय प्रयुक्तम्।
(ग) ‘सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरम् - ’सर्वः स्वार्थं समीहते’, अस्मिन् वाक्ये कर्तृपदं ‘सर्वः’ इति।
(घ) सा सहसा चञ्चलमुपसृत्य कथयति - वाक्यात् एकम् अव्ययपदं चित्वा लिखत।
उत्तरम् - सा सहसा चञ्चलमुपसृत्य कथयति - वाक्यात् एकम् अव्ययपदं ‘सहसा’ इति।
(ङ) ‘का वार्ता? माम् अपि विज्ञापय’ - अस्मिन् वाक्ये क्रियापदं किम्? क्रियापदस्य पदपरिचयमपि लिखतः।
उत्तरम् -
'का वार्ता? माम् अपि विज्ञापय’ - अस्मिन् वाक्ये क्रियापदं विज्ञापय इति।
पदपरिचयम् - ‘वि’ उपसर्गपूर्वकात् भ्वादिगणीयात् ज्ञा धातोः णिचि प्रत्ययस्य लोटलकारस्य मध्यमपुरुष एकवचने ‘विज्ञापय’ इति रूपम्।
7- (अ) उदाहरणानुसारं रिक्तस्थानानि पूरयत-
एकवचनम् द्विवचनम् बहुवचनम्
यथा-
मातृ (प्रथमा) माता मातरौ मातरः
स्वसृ (प्रथमा) स्वसा स्वसारौ स्वसारः
मातृ (तृतीया) मात्रा मातृभ्याम् मातृभिः
स्वसृ (तृतीया) स्वस्रा स्वसृभ्याम् स्वसृभिः
स्वसृ (सप्तमी) स्वसरि स्वस्रोः स्वसृषु
मातृ (सप्तमी) मातरि मात्रोः मातृषु
स्वसृ (षष्ठी) स्वसुः स्वस्रोः स्वसृणाम्
मातृ (षष्ठी) मातुः मात्रोः मातृणाम्
(आ) धातुं प्रत्ययं च लिखत-
पदानि = धातुः प्रत्ययः
यथा- गन्तुम् = गम् + तुमुन् (के लिए)
द्रष्टुम् = दृश् + तुमुन्
करणीय = कृ + अनीयर् (चाहिए)
पातुम् = पा + तुमुन्
खादितुम् = खाद् + तुमुन्
कृत्वा = कृ + क्त्वा (कर)
Comments
Post a Comment