7.8.2 कक्षा- सप्तमी, विषय:- संस्कृतम् अष्टमः पाठः (त्रिवर्णः ध्वजः) अभ्यासः Class- 7th, Subject- Sanskrit, Lesson- 8 (Trivarn DhavajH) - Abhyaas
7.8.2 कक्षा- सप्तमी, विषय:- संस्कृतम्
अष्टमः पाठः (त्रिवर्णः ध्वजः) अभ्यासः
************************************
नमो नमः।
सप्तमीकक्ष्यायाः रुचिरा भाग-2 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम्।
अद्य वयं अष्टम-पाठस्य अभ्यासकार्यं कुर्म: ।
पाठस्य नाम अस्ति -
त्रिवर्णः ध्वजः।
अहं डॉ. विपिन:।
************************************
अष्टमः पाठः (त्रिवर्णः ध्वजः)
अभ्यासः (Exercise)
1- शुद्धकथनस्य समक्षम् ‘आम्’ अशुद्धकथनस्य समक्षं ‘न’
इति लिखत-
(क) अस्माकं राष्ट्रस्य ध्वजे त्रयः
वर्णाः सन्ति। आम्
(ख) ध्वजे हरितवर्णः शान्तेः प्रतीकः
अस्ति। न
(ग) ध्वजे केशरवर्णः शक्त्याः सूचकः
अस्ति। आम्
(घ) चक्रे त्रिंशत् अराः सन्ति। न
(घ) चक्रं प्रगतेः द्योतकम्। आम्
2- अधोलिखितेषु पदेषु प्रयुक्तां
विभक्तिं वचनं च लिखत-
पदानि विभक्तिं
वचनम्
यथा- त्रयाणाम् षष्ठी
बहुवचनम्
समृद्धेः षष्ठी एकवचनम्
वर्णानाम् षष्ठी बहुवचनम्
उत्साहस्य षष्ठी एकवचनम्
नागरिकैः तृतीया बहुवचनम्
सात्त्विकतायाः षष्ठी एकवचनम्
प्राणानाम् षष्ठी बहुवचनम्
सभायाम् सप्तमी एकवचनम्
3-एकपदेन उत्तरत-
(क) अस्माकं ध्वजे कति वर्णाः सन्ति?
उत्तरम् - त्रयः
(ख) त्रिवर्णे ध्वजे शक्त्याः सूचकः कः
वर्णः?
उत्तरम् - केशरवर्णः।
(ग) अशोकचक्रं कस्य द्योतकम् अस्ति?
उत्तरम् - प्रगतेः न्यायस्य च
(घ) त्रिवर्णः ध्वजः कस्य प्रतीकः?
उत्तरम् - स्वाधीनतयाः राष्ट्रगौरवस्य च
4- एकवाक्येन उत्तरत-
(क) अस्माकं ध्वजस्य श्वेतवर्णः कस्य
सूचकः अस्ति?
उत्तरम् - अस्माकं ध्वजस्य श्वेतवर्णः सात्विकतायाः
शुचितायाः च सूचकः अस्ति।
(ख) अशोकस्तम्भः कुत्र अस्ति?
उत्तरम् - अशोकस्तम्भः सारनाथे अस्ति।
(ग) त्रिवर्णध्वजस्य उत्तोलनं कदा भवति?
उत्तरम् - त्रिवर्णध्वजस्य उत्तोलन स्वतंत्रतादिवसे
गणतंत्रतादिवसे च भवति।
(घ) अशोकचक्रे कति अराः सन्ति?
उत्तरम् - अशोकचक्रे चतुर्विंशतिः अराः सन्ति।
5- अधोलिखितवाक्येषु रेखांकितपदानि
आधृत्य प्रश्ननिर्माणं कुरुत-
(क) अस्माकं त्रिवर्णध्वजः विश्वविजयी
भवेत्।
उत्तरम् - अस्माकं कः विश्वविजयी भवेत्?
(ख) स्वधर्मात् प्रमादं वयं च कुर्याम।
उत्तरम् - स्वधर्मात् कम् वयं न कुर्याम? (पुलिंग -द्वितीया -एकवचनाम्)
(ग) एतत् सर्वम् अस्माकं नेतृणां
सद्बुद्धेः सत्फलम्।
उत्तरम् -एतत् सर्वम् अस्माकं नेतृणां कस्याः सत्फलम्?
(घ) शत्रूणां समक्षं विजयः सुनिश्चितः
भवेत्।
उत्तरम् - केषां समक्षं विजयः सुनिश्चितः भवेत्?
6- उदाहरणानुसारं समुचितैः पदैः
रिक्तस्थानानि पूरयत-
शब्दाः विभक्तिः एकवचनम् द्विवचनम् बहुवचनम्
यथा- पट्टिका षष्ठी पट्टिकायाः पट्टिकयोः पट्टिकानाम्
अग्निशिखा सप्तमी अग्निशिखायाम्
अग्निशिखयोः अग्निशिखासु
सभा चतुर्थी सभायै सभाभ्याम् सभाभ्यः
अहिंसा द्वितीया अहिंसाम् अहिंसे अहिंसाः
सफलता पञ्चमी सफलतायाः सफलताभ्याम् सफलताभ्यः
सूचिका तृतीया सूचिकया सूचिकाभ्याम्
सूचिकाभिः
7- समुचितमेलनं कृत्वा लिखत-
क ख
केशरवर्णः शौर्यस्य त्यागस्य च सूचकः।
हरितवर्णः सुषमायाः उर्वरतायाः च सूचकः।
अशोकचक्रम् प्रगतेः न्यायस्य च प्रवर्तकम्।
त्रिवर्णः ध्वजः स्वाधीनतायाः राष्ट्रगौरवस्य च प्रतीकः।
त्रिवर्णध्वजस्य स्वीकरणं 22
जुलाई 1947 तमे वर्षे जातम्।
Comments
Post a Comment