7.12.2 कक्षा- सप्तमी, विषय:- संस्कृतम् द्वादशः पाठः (विद्याधनम्) अभ्यासः Class- 7th, Subject- Sanskrit, Lesson- 12 (VidyaDhanaM) - Abhyaas
7.12.2 कक्षा- सप्तमी, विषय:-
संस्कृतम्
द्वादशः पाठः (विद्याधनम्) अभ्यासः
Class- 7th, Subject- Sanskrit, Lesson- 12
(VidyaDhanaM) - Abhyaas
************************************
नमो
नमः।
सप्तमीकक्ष्यायाः
रुचिरा भाग-2 इति पाठ्यपुस्तकस्य
शिक्षणे स्वागतम्।
अद्य
वयं द्वादश-पाठस्य अभ्यासकार्यं कुर्म: ।
पाठस्य
नाम अस्ति -
विद्याधनम्
अहं
डॉ. विपिन:।
************************************
द्वादशः पाठः (विद्याधनम्)
अभ्यासः (Exercise)
प्रश्न
1:उपयुक्तकथनानां
समक्षम् 'आम्', अनुपयुक्तकथनानां समक्षं 'न' इति
लिखत-
(क) विद्या राजसु पूज्यते।
(ख) वाग्भूषणं भूषणं न।
(ग) विद्याधनं सर्वधनेषु
प्रधानम्।
(घ) विदेशगमने विद्या बन्धुजनः न
भवति।।
(ङ) सर्वं विहाय विद्याधिकारं कुरु।
उत्तराणि:
(क)
विद्या राजसु पूज्यते। आम्
(ख)
वाग्भूषणं भूषणं न। न
(ग)
विद्याधनं सर्वधनेषु प्रधानम्। आम्
(घ)
विदेशगमने विद्या बन्धुजनः न भवति।। न
(ङ)
सर्वं विहाय विद्याधिकारं कुरु। आम्
प्रश्न
2: अधोलिखितानां
पदानां लिङ्ग, विभक्तिं, वचनञ्च लिखत-
पदानि लिङ्गम् विभक्तिः वचनम्
नरस्य ............... ............... ...............
गुरूणाम् ............... ............... ...............
केयूराः ............... ................. ...............
कीर्तिम् ............... ............... ...............
भूषणानि ............... ............... ...............
उत्तराणि:
पदानि लिङ्गम् विभक्ति: वचनम्
नरस्य पुँल्लिङ्गम् षष्ठी एकवचनम्
गुरूणाम् पुँल्लिङ्गम् षष्ठी बहुवचनम्
केयूरा: पुँल्लिङ्गम् प्रथमा बहुवचनम्
कीर्तिम् स्त्रीलिङ्गम् द्वितीया एकवचनम्
भूषणानि नपुंसकलिङ्गम् द्वितीया बहुवचनम्
प्रश्न
3: श्लोकांशान्
योजयत-
क
ख
विद्या राजसु पूज्यते न हि धनम् हारा
न चन्द्रोज्ज्वलाः।
केयूराः न विभूषयन्ति पुरुषम् न
भ्रातृभाज्यं न च भारकारि।
न चौरहार्यं न च राजहार्यम् या
संस्कृता धार्यते।
सत्कारायतनं कुलस्य महिमा विद्या-विहिनः
पशुः।
वाण्येका समलङ्करोति पुरुषम् रत्नैर्विना
भूषणम्।
उत्तराणि:
क
ख
विद्या राजसु पूज्यते
न हि धनम् विद्या-विहिनः पशुः।
केयूराः न विभूषयन्ति
पुरुषम् हारा
न चन्द्रोज्ज्वलाः।
न चौरहार्यं न च
राजहार्यम् न भ्रातृभाज्यं न च भारकारि।
सत्कारायतनं कुलस्य
महिमा रत्नैर्विना
भूषणम्।
वाण्येका समलङ्करोति
पुरुषम् या संस्कृता धार्यते।
प्रश्न
4: एकपदेन
प्रश्नानाम् उत्तराणि लिखत-
(क) कः पशुः?
(ख) का भोगकरी?
(ग) के पुरुषं न विभूषयन्ति?
(घ) का एका पुरुषं समलङ्करोति?
(ङ) कानि क्षीयन्ते?
उत्तराणि:
(क)
विद्याविहीनः ।
(ख)
विद्या ।
(ग)
केयूराः ।
(घ)
वाणी ।
(ङ)
अखिल-भूषणानि ।
प्रश्न
5: रेखाङ्कितपदानि
अधिकृत्य प्रश्ननिर्माणं कुरुत-
(क) विद्याविहीनः नरः पशुः
अस्ति।
(ख) विद्या राजसु पूज्यते।
(ग) चन्द्रोज्ज्वलाः हाराः
पुरुषं न अलङ्कुर्वन्ति।
(घ) पिता हिते नियुङ्क्ते?
(ङ) विद्याधनं सर्वप्रधान
धनमस्ति।
(च) विद्या दिक्षु कीर्तिं
तनोति।
उत्तराणि:
(क)
विद्याविहीन: क: पशु: अस्ति?
(ख) का
राजसु पूज्यते?
(ग)
चन्द्रोज्ज्वला: के पुरुषं न अलङ्कुर्वन्ति?
(घ) क:
हिते नियुङ्क्ते?
(ङ)
विद्याधनं कथं धनमस्ति?
(च)
विद्या केषु/ कुत्र कीर्तिं तनोति?
प्रश्न
6: पूर्णवाक्येन
प्रश्नानाम् उत्तराणि लिखत-
(क) गुरूणां गुरुः का अस्ति?
(ख) कीदृशी वाणी पुरुषं
समलङ्करोति?
(ग) व्यये कृते किं वर्धते?
(घ) भाग्यक्षये आश्रयः कः?
उत्तराणि:
(क)
गुरूणां गुरुः विद्या अस्ति।
(ख)
संस्कृता धार्यते वाणी पुरुषं समलङ्करोति।
(ग)
व्यये कृते विद्या वर्धते।
(घ)
भाग्यक्षये आश्रयः विद्या अस्ति।
प्रश्न
7: मञ्जूषातः
पुँल्लिङ्ग-स्त्रीलिङ्ग-नपुंसकलिङ्गपदानि चित्वा लिखत-
विद्या धनम् संस्कृता सततम् कुसुमम् मूर्धजाः पशुः गुरुः रतिः
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा-
हाराः अलङ्कता भूषणम्
................. ................. .................
................. ................. .................
................. ................. .................
उत्तराणि:
पुँल्लिङ्गम् स्त्रीलिङ्गम् नपुंसकलिङ्गम्
यथा- हाराः अलङ्कता भूषणम्
पशुः विद्या धनम्
गुरुः संस्कृता कुसुमम्
मूर्धजाः रतिः सततम्
Comments
Post a Comment