8.14.2 कक्षा- अष्टमी, विषय:- संस्कृतम्, चतुर्दशः पाठ: (आर्यभटः) Class- 8th, Subject- Sanskrit, Lesson- 14 (Aaryabhatt)
8.14.2 कक्षा- अष्टमी, विषय:-
संस्कृतम्,
चतुर्दशः पाठ: (आर्यभटः)
Class- 8th, Subject- Sanskrit,
Lesson- 14 (Aaryabhatt)
************************************
नमो नमः।
अष्टमकक्ष्यायाः रुचिरा भाग-3 इति पाठ्यपुस्तकस्य शिक्षणे
स्वागतम्।
अधुना वयं चतुर्दश-पाठस्य अभ्यासकार्यं कुर्मः।
पाठस्य नाम अस्ति
(आर्यभटः)
अहं डॉ. विपिन:।
************************************
चतुर्दशः पाठ: (आर्यभटः)
अभ्यासः
प्रश्न 1: एकपदेन
उत्तरत −
(क) सूर्यः कस्यां दिशायाम् उदेति?
(ख) आर्यभटस्य वेधशाला कुत्र आसीत्?
(ग) महान गणितज्ञ: ज्योतिविच्च क: अस्ति?
(घ) आर्यभटेन क: ग्रन्थ: रचित:?
(ङ) अस्माकं प्रथमोपग्रहस्य नाम किम् अस्ति?
उत्तराणि:
(क)
पूर्वस्याम् ।
(ख)
पाटलीपुत्रं निकषा।
(ग)
आर्यभट: ।
(घ)
आर्यभटीयम्।
(ङ)
आर्यभट: ।
प्रश्न 2: पूर्णवाक्येन
उत्तरत–
(क) कः सुस्थापितः सिद्धांत?
(ख) चन्द्रग्रहणं कथं भवति?
(ग) सूर्यग्रहणं कथं दृश्यते?
(घ) आर्यभटस्य विरोध: किमर्थमभवत्?
(ङ) प्रथमोपग्रहस्यं नाम आर्यभटः इति कथं कृतम्?
उत्तराणि:
(क)
सूर्यः अचलः पृथिवी च चला। सा च पृथिवी स्वकीये अक्षे घूर्णेति इति साम्प्रतं
सुस्थापितः सिद्धान्तः।
(ख)
यदा पृथिव्याः छायापातेन चन्द्रस्य प्रकाशः अवरुध्यते तदा चन्द्रग्रहणं भवति।
(ग)
पृथ्वी-सूर्ययोः
मध्ये समागतस्य चन्द्रस्य छायापातेन सूर्यग्रहणं दृश्यते।
(घ)
समाजे नूतनानां सिद्धान्तानां स्वीकारणे सामान्यजनाः काठिन्यम् अनुभवन्ति।
भारतीयज्योतिःशास्त्रे आर्यभटस्य सिद्धान्तः नूतनः आसीत्। तस्मात् तस्य विरोधः
अभवत्।
(ङ)
आधुनिकवैज्ञानिकाः आर्यभटं प्रति समादरं प्रकटयन्तः प्रथमोपग्रहस्य नाम आर्यभट इति
कृतम्।
प्रश्न 3: रेखांकितपदानि
आधृत्य प्रश्ननिर्माणं कुरुत–
(क) सर्यू: पश्चिमायां दिशायाम्
अस्तं गच्छति?
(ख) पृथिवी स्थिरा वर्तते इति परम्परया
प्रचलिता रूढिः?
(ग) आर्यभटस्य योगदानं गणित-ज्योतिष संबद्ध: वर्तते?
(घ) समाजे नूतनविचाराणाम् स्वीकरणे प्रायः सामान्यजनाः
काठिन्यमनुभवन्ति?
(ङ) पृथ्वीसूर्ययोः मध्ये
चन्द्रस्य छाया पातेन सूर्य ग्रहणं भवति?
उत्तराणि:
(क) सूर्यः कस्यां
दिशायाम् अस्तं गच्छति?
(ख)
पृथिवी स्थिरा वर्तते इति कथं प्रचलिता रूढिः?
(ग)
आर्यभटस्य योगदानं किं संबद्धः वर्तते?
(घ)
समाजे नूतनविचाराणां स्वीकरणे प्रायः के काठिन्यमनुभवन्ति?
(ङ)
कयोः मध्ये चन्द्रस्य छायापातेन सूर्यग्रहणं भवति?
प्रश्न 4: मञ्जूषात:
पदानि चित्वा रिक्तस्थानानि पूरयत −
नौकाम्, पृथिवी, तदा, चला, अस्तं
(क) सूर्य: पूर्वदिशायाम् उदेति पश्चिमदिशि च
--------------------- गच्छति।
(ख) सूर्य: अचल: पृथिवी च
---------------------।
(ग) --------------------- स्वकीये अक्षे
घूर्णति।
(घ) यदा पृथिव्या: छायापातेन चन्द्रस्य प्रकाश:
अवरूध्यते --------------------- चन्द्रग्रहण
भवति।
(ङ) नौकायाम् उपविष्ट: मानव:
--------------------- स्थिरामनुभवति।
उत्तराणि:
(क)
सूर्य: पूर्वदिशायाम् उदेति पश्चिम दिशि च अस्तं गच्छति।
(ख)
सूर्य: अचल: पृथिवी च चला।
(ग)
पृथिवी स्वकीये अक्षे घूर्णति।
(घ)
यदा पृथिव्या: छाया पातेन चन्द्रस्य प्रकाश: अवरूध्यते तदा चन्द्रग्रहण भवति।
(ङ)
नौकायाम् उपविष्ट: मानव: नौकाम् स्थिरामनुभवति।
प्रश्न 5: सन्धिविच्छेद
कुरूत −
(क) ग्रन्थोऽयम् - --------------------- + ---------------------
(ख) सूर्याचल: - --------------------- + ---------------------
(ग) तथैव - --------------------- + ---------------------
(घ) कालातिगामिनी - --------------------- + ---------------------
(ङ) प्रथमोपग्रहस्य - --------------------- + ---------------------
उत्तराणि:
(क) ग्रन्थोऽयम् - ग्रन्थ: + अयम् (
: +अ = ओS)
पर्वरुप संधि
(ख) सूर्याचल: - सूर्य + अचल: (अ+अ =
आ) दीर्ध संधि
(ग) तथैव - तथा + एव (आ+ए =
ऐ) गुण संधि
(घ) कालातिगामिनी - काल + अतिगामिनी (अ+अ =
आ) दीर्ध संधि
(ङ) प्रथमोपग्रहस्य - प्रथम + उपग्रहस्य (अ+उ =ओ) गुण संधि
प्रश्न 6: (अ)
अधेलिखितपदानां विपरीतार्थकपदानि लिखत–
उदयः ...................
अचलः ...................
अन्धकारः ...................
स्थिरः ...................
समादरः ...................
आकाशस्य ...................
(आ) अधोलिखितपदानां समानार्थकपदानि पाठात्
चित्वा लिखत–
संसारे ...................
इदानीम् ...................
वसुन्धरा ...................
समीपम् ...................
गणनम् ...................
राक्षसौ ...................
उत्तराणि:
अ.
उदयः - अस्तम्
अचलः - सचलः/ चलः
अन्धकारः - प्रकाशः
स्थिरः - अस्थिरः/ गतिशीलः
समादरः - विरोधः
आकाशस्य – पृथिव्याः
आ.
संसारे - लोके
इदानीम् - साम्प्रतम्
वसुन्धरा - पृथिवी
समीपम् - निकषा
गणनम् - आकलनम्
राक्षसौ - दानवौ
प्रश्न 7: अधोलिखितानि
पदानि आधृत्य वाक्यानि रचयत–
साम्प्रतम् – ............................................................................
निकषा – ............................................................................
परितः – ............................................................................
उपविष्टः – ............................................................................
कर्मभूमिः – ............................................................................
वैज्ञानिकः– ............................................................................
उत्तराणि:
साम्प्रतम् - साम्प्रतं
यन्त्रमाध्यमेन वयं अधिकाधिकं कार्यं समापयामः।
साम्प्रतम्
छात्राः संस्कृतं पठन्ति।
निकषा - ग्रामं निकषा उद्यानं विद्यते।
ग्रामं निकषा देवालयं
विद्यते।
उपविष्टः - आसनम् उपविष्टः स
आत्मानं राजानं मन्यते।
वृक्षे खगः
उपविष्टः अस्ति।
मार्गे
उपविष्टः बालकः रुदति।
कर्मभूमिः – मम
कर्म भूमिः भारतम् अस्ति।
आर्यभटस्य
कर्मभूमिः पाटलिपुत्रम् आसीत्।
वैज्ञानिकः - वैज्ञानिकाः नवं
नवं यन्त्रम् आविष्कुर्वन्ति।
आर्यभटः
महान् वैज्ञानिकः आसीत्।
Comments
Post a Comment