संस्कृत भाषायाः महत्त्वम्
संस्कृत भाषा का महत्त्व (संस्कृत)
(importance of Sanskrit in Sanskrit)
संस्कृतम् भारतस्य विश्वस्य च पुरातनतमा भाषा। अन्यास भाषाणां तथा पुरातनं साहित्यमद्य नोपलभ्यते यथा पुरातनं संस्कृतसाहित्यम् । विश्वस्य पुरातनतमो ग्रन्थः ऋग्वेदः संस्कृतभाषयैव निबद्धः । इयमतीव वैज्ञानिकी भाषा, अस्या पाणिनिमुनिप्रणीतं व्याकरणमतीव वैज्ञानिकं यस्य साहाय्येन अद्यापि वयं तान् पुरातनग्रन्थान् अवबोधुं शक्नुमः ।
संस्कृतमेव हि भारतम् । यदि वयं प्राचीन भारतमर्वाचीनं वापि भारतं ज्ञातुमिच्छामः तह नास्ति संस्कृतसमोऽन्य उपायः । भारतीयजनस्य अद्यापि यत् चिन्तनं तस्य मूलं प्राचीनसंस्कृतवाङ्मये दृश्यते । यदि च तत् चिन्तनं वयं नूतनविज्ञानाभिमुख कर्तुमिच्छामस्तह तस्य मूलं पृष्ठभूमि च अविज्ञाय विच्छिन्नरूपेण कतु न शक्नुमः। यदि वयमिच्छामो यत् भारतीयजनः परिवर्तनम् आत्मसात् कुर्यात् तदा तेन परिवर्तनेन आत्मरूपेण संस्कृतिमयेन संस्कृतमयेन च भाव्यम् ।।
संस्कृतस्य शब्दाः सर्वासु भारतीयभाषासु कासुचित् वैदेशिकभाषासु च प्रयुज्यन्ते । अतः यदि वयं भारतीयजनानामेकीभावं, तेषां भाषागतम् अभेदं सौमनस्यं च इच्छामः तदा संस्कृतज्ञानेनैव तत सम्भाव्यते । संस्कृतं सर्वाः-भारतीयभाषाः सर्वं जनमानसं च एकसूत्रेण संयोजयति । प्राचीनभारतीयेतिहासस्य भूगोलस्य च समीचीनं चित्रं संस्कृताध्ययनं विना असम्भवम् ।
संस्कृतसाहित्यम् अति समृद्धं विविधज्ञानमयं च वर्तते । अत्र वैदिकं ज्ञानमुपलभ्यते, यस्य क्वचिदपि साम्यं नास्ति । महाभारतं तु विश्वकोशरूपमस्ति । रामायणशिक्षाः दिशि दिशि प्रचरिताः। उपनिषद्भिर्वैदेशिकैरपि विद्वद्भिः शान्तिः प्राप्ता। कालिदासादीनां काव्यानाम् उत्कर्षस्य तु कथैव का। चरकसुश्रतयोरायुर्वेदः, भारद्वाजस्य विमानशास्त्रम्, कणादस्य परमाणुविज्ञानम्, गौतमस्य तर्कविद्या, शुल्बसूत्राणां ज्यामितिविज्ञानम्, आर्यभटस्य खगोलशास्त्रम् इत्येवमादीनि अनेकानि विज्ञानानि शास्त्राणि च संस्कृतभाषोपनिबद्धान्येव । अद्यापि राजनीतिविषये शासनतन्त्रविषये च कौटिल्यस्य अर्थशास्त्रं मनुस्मृतिश्च मार्गप्रदर्शके स्तः ।
वयं भारतीयाः । अस्माभिः स्वकीयं गौरवमयं वाङ्मयमधीत्यैव तदाधारे भविष्यनिर्माणं कर्तव्यं, तदैवात्मोत्कर्षः सम्भाव्यते। स च उत्कर्षः आत्माधिष्ठितो हृदयग्राही वास्तविकोन्नतिकारी भविष्यति । यानि राष्ट्राणि स्वगौरवं न विस्मरन्ति तान्येव सफलतायाश्चरमोत्कर्ष प्राप्नुवन्ति ।
----
प्रस्तावना
संस्कृता परिष्कृता परिशुद्धा व्याकरणसम्बन्धिदोषादिरहिता भाषा संस्कृतभाषेति निगद्यते। सर्वविधदोषशून्यत्वादियं भाषा देवभाषा, गीर्वाणगी: इत्यादिभिः शब्दैः संबोध्यते। अतोऽन्या भाषा प्राकृतभाषापदवी प्राप्ता।
संस्कृतभाषाया उपयोगिता , महत्त्वं लाभाश्च
संस्कृतभाषा विश्वस्य सर्वासु भाषासु प्राचीनतमा सर्वोत्तमसाहित्यसंयुक्ता चास्ति ।। संस्कृतभाषाया उपयोगिता एतस्मात कारणाद् वर्तते यद एषैव सा भाषाऽस्ति यतः सर्वासा भारतीयानाम् आर्यभाषाणाम् उत्पत्तिर्बभूव । सर्वासामेतासां भाषाणाम् इयं जननी । सर्वभाषाणां । मूलरूपज्ञानाय एतस्या आवश्यकता भवति । प्राचीने समये एषैव भाषा सर्वसाधारणा आसीत् , सर्वे जना : संस्कृतभाषाम् एव वदन्ति स्म । अत : ईसवीयसंवत्सरात्पूर्व प्रायः समग्रमपि साहित्यं संस्कृतभाषायामेव उपलभ्यते । संस्कृतभाषायाः सर्वे जनाः प्रयोगं कुर्वन्ति स्म , इति तु निरुक्तमहाभाष्यादिग्रन्थेभ्यः सर्वथा सिद्धमेव । आधुनिक भाषाविज्ञानमपि एतदेव सनिश्चयं प्रमाणयति ।
तत्साहित्यम
संस्कृतभाषायामेव विश्वसाहित्यस्य सर्वप्राचीनग्रन्थाः चत्वारो वेदाः सन्ति , येषां महत्त्वमद्यापि सर्वोपरि वर्तते । वेदेषु मनुष्याणां कर्तव्याकर्तव्यस्य सम्यक्तया निर्धारणं वर्तते । वेदानां । व्याख्यानभूता ब्राह्मणग्रन्थाः सन्ति । तदनन्तरम् अध्यात्मविषयप्रतिपादिका उपनिषदः सन्ति , यासां । महिमा पाश्चात्त्यैरपि नि : संकोचं गीयते । ततश्च भारतगौरवभूताः षड्दर्शनग्रन्थाः सन्ति , ये । विश्वसाहित्येऽद्यापि सर्वमान्याः सन्ति । ततश्च श्रौतसूत्राणां , गृह्यसूत्राणां , धर्मसूत्राणां , वेदस्य व्याख्यानभूतानां षडङ्गानां च गणना भवति । महर्षिवाल्मीकिकृतवाल्मीकीयरामायणस्य , महर्षिव्यासकृतमहाभारतस्य च रचना विश्वसाहित्येऽपूर्ण घटना आसीत् । सर्वप्रथमं विशदस्य कवित्वस्य , प्रकृतिसौन्दर्यस्य , नीतिशास्त्रस्य , अध्यात्मविद्यायाः तत्र दर्शनं भवति । तदनन्तरं । कौटिल्यसदृशाः अर्थशास्त्रकाराः भासकालिदासाश्वघोषभवभूतिदण्डिसुबन्धुबाणजयदेवप्रभूतयो । महाकवयो नाट्यकाराश्च पुरतः समायान्ति , येषां जन्मलाभेन न केवल भारतभूमिरेव , अपितु समस्तं विश्वमेतद् धन्यमस्ति । एतेषां कविवराणां गुणगणस्य वनि महाविद्वांसोऽपि असमर्थाः सन्ति , का गणना साधारणानां जनानाम् । भगवद्गीता , पुराणानि , स्मृतिग्रन्थाः अन्यद्विषयकं च सर्व साहित्य संस्कृतस्य माहात्म्यमेवोद्घोषयति ।
उपसंहारः
संस्कृतभाथैव भारतस्य प्राणभूता भाषाऽस्ति । एषैव समस्तं भारतवर्षभेकसूत्रे बध्नाति । भारतीयगौरवस्य रक्षणाय एतस्याः प्रचार प्रसारश्च सर्वव कर्तव्यः ।
10 Lines on Importance of Sanskrit
1. देवभाषा वेदभाषा च भवति संस्कृतं ।
2. सम्यक् कृतं इति संस्कृतं ।
3. इयं भाषा देववाणी इति कथ्यते ।
4. वेदाः , रामायणः , महाभारतः , भगवद् गीता इत्यादि ग्रन्थाः संस्कृतभाषायां एवं विरचितानि ।
5. सर्वासु भाषासु अपेक्षया संस्कृतभाषायां अधिकपदानि सन्ति ।
6. इयं भाषा वैद्यशास्त्रेष्वपि उपयुज्यति ।
7. इयं भाषायाः महत्वं विदेशराज्येष्वपि प्रसिध्दं ।
8. परन्तु अद्य एतम् भाषायाः स्थिति अत्यन्तं शोचनीयं ।
9. भारतदेशे संस्कृतं मृतभाषा इति ज्ञातः ।
10. जनाः संस्कृतविषये तत्परः नास्ति ।
11. संस्कृतभाषायाः संरक्षणार्थं वयं संस्कृतपठनं प्रचरणं च अवश्यं करणीयं ।
20 lines essay on importance of Sanskrit in Sanskrit language
• संस्कृतम् जगतः अतिप्राचीना समृद्धा शास्त्रीया च भाषा वर्तते ।
• संस्कृतम् भारतस्य जगत : च भाषासु प्राचीनतमा ।
• संस्कृता वाक् , भारती , सुरभारती , अमरभारती , अमरवाणी , सुरवाणी , गीर्वाणवाणी , गीर्वाणी , देववाणी , देवभाषा , दैवीवाक् इत्यादिभिः नामभिः एतद्भाषा प्रसिद्धा ।
• भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः ।
• संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः ।
• तावदेव भारत – युरोपीय – भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति ।
• व्याकरणेन सुसंस्कृता भाषा जनानां संस्कारप्रदायिनी भवति ।
• अष्टाध्यायी इति नाम्नि महर्षिपाणिनेः विरचना जगतः सर्वासां भाषाणाम् व्याकरणग्रन्थेषु अन्यतमा , वैयाकरणानां भाषाविदां भाषाविज्ञानिनां च प्रेरणास्थानं इवास्ति ।
• संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति ।
• संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति ।
• वेद – शास्त्र – पुराण – इतिहास – काव्य – नाटक – दर्शनादिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक् ।
• न केवलं धर्म – अर्थ – काम – मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक – नैतिक – आध्यात्मिक – लौकिक – पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी ।
संस्कृत भाषा सर्वासु भाषासु प्राचीनतमा इत्यत्र नास्ति कोऽपि विवाद : ।
• संस्कृतभाषा अनेकासां भाषाणां जननी मता ।
• विज्ञानिका : कथयन्ति यत् संस्कृत संगणकस्य कृते सर्वोतम : भाषा अस्ति ।
• संस्कृतभाषायां एव ज्ञानविज्ञानयो : निधि सुरक्षितो अस्ति ।
• संस्कृत अस्माकं सन्मार्गम् उपरी प्रेरयति ।
• संस्कृत भाषायां विश्वसाहितस्य सर्व प्राचीन ग्रन्था : चत्वार : वेद : सन्ति ।
• संस्कृत भाषा एव भारतवर्षम् एकसूत्रे बध्नाति ।
• संस्कृतमेव भारतस्य गौरवं अस्ति अत : अस्याः प्रचार : प्रसार : अस्माकं कर्तव्याः ।
भारतीयभाषासु बाहुल्येन संस्कृतशब्दाः उपयुक्ताः ।
• संस्कृतात् एव अधिका भारतीयभाषा उद्भूताः ।
• तावदेव भारत – युरोपीय – भाषावर्गीयाः अनेकाः भाषाः संस्कृतप्रभावं संस्कृतशब्दप्राचुर्यं च प्रदर्शयन्ति ।
• संस्कृतवाङ्मयं विश्ववाङ्मये स्वस्य अद्वितीयं स्थानम् अलङ्करोति ।
• संस्कृतस्य प्राचीनतमग्रन्थाः वेदाः सन्ति ।
• वेद – शास्त्र – पुराण – इतिहास – काव्य – नाटक – दर्शना दिभिः अनन्तवाङ्मयरूपेण विलसन्ती अस्ति एषा देववाक् ।
• न केवलं धर्म – अर्थ – काम – मोक्षात्मकाः चतुर्विधपुरुषार्थहेतुभूताः विषयाः अस्याः साहित्यस्य शोभां वर्धयन्ति अपितु धार्मिक – नैतिक – आध्यात्मि क – लौकिक – पारलौकिकविषयैः अपि सुसम्पन्ना इयं दववाणी ।
Comments
Post a Comment