भवतु भारतम् - संस्कृत गीत
Bhavtu Bhartam - Sanskrit Song
शक्तिसम्भृतम् युक्तिसम्भृतम् I
शक्ति-युक्तिसम्भृतम् भवतु भारतम् I
शस्त्रधारकं शास्त्रधारकम् ।
शस्त्र-शास्त्रधारकम् भवतु भारतम् ll
रीतिसंस्कृतं नीतिसंस्कृतम्।
रीति-नीतिसंस्कृतम् भवतु भारतम् ।।
कर्मनैष्ठिकं धर्मनैष्ठिकम् ।
कर्म-धर्मनैष्ठिकं भवतु भारतम् I
भक्तिसाधकं मुक्तिसाधकम्।
भक्ति-मुक्तिसाधकं भवतु भारतम् ll
Comments
Post a Comment