Skip to main content

6.5.2 कक्षा/ Class- VI/6 संस्कृतम्/ Sanskrit पञ्चम: पाठ:/ Lesson- 5 शूराः वयं धीराः वयम्/ ShuraH Vayam DheeraH Vayam

6.5.2 कक्षा/ Class- VI/6

   संस्कृतम्/ Sanskrit   

  पञ्चम: पाठ:/  Lesson- 5

 शूराः वयं धीराः वयम्/ ShuraH Vayam DheeraH Vayam


वयम् अभ्यासं कुर्म:   


1. एतत् सम्पूर्णं गीतं सस्वरं गायन्तु लिखन्तु, कण्ठस्थं च कुर्वन्तु।



२. पाठस्य आधारेण प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु ।


(कः) शूराः के?

उत्तरम्: भारतीयाः/ वयम्

(ख) वयं कीदृशमानसाः स्मः ?

उत्तरम्: दृढ़मानसाः


(ग) वयं कीदृशचिन्तकाः स्मः ?

उत्तरम्: शुभचिन्तकाः


(घ) वयं कुत्र अतिनिश्चलाः स्मः ?

उत्तरम्: विजये


(ङ) वयं विजयार्थिनः कुत्र याम: ?

उत्तरम्: समराङ्गणम् 


३ उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु । 

शूराः वयम् = ‘शूरः “अहम्’

वीराः वयम् – …………..।

उत्तरम्: वीर: अहम् ।


(ख) ………….. = बलशालिनः

…………. जयगामिनः ।

उत्तरम्: बलशाली जयगामी ।


(ग) दृढमानसाः = ……………..

प्रियसाहसा: = …………..।

उत्तरम्: दृढ़मानसः प्रियसाहसः। 

……….. = अतिभावुकाः

शुभचिन्तका: = …………….।

उत्तरम्: अतिभावुकः शुभचिन्तक:। 


(ङ) धनकामना = ……………

वञ्चना = ……………।

उत्तरम्: धनकामना: वञ्चनाः।


(च) ………… = वर्चस्वलाः

………… अतिनिश्चलाः ।

उत्तरम्: वर्चस्वल अतिनिश्चलः।‌


४ क’ स्तम्भेन सह ‘ख’ स्तम्भस्य उचितं मेलनं कृत्वा रिक्तस्थाने लिखन्तु ।

उत्तरम्: 

(क) गतभीतयो धृतनीतयो दृढशक्तयो निखिलाः ।

(ख) यामो वयं समराङ्गणं विजयार्थिनो बालाः ।

(ग) जगदीश हे ! परमेश हे! सकलेश हे भगवन् ।

(घ) जय मङ्गलं परमोज्ज्वलं नो देहि परमात्मन् ।

(ङ) जनसेवकाः अतिभावुकाः शुभचिन्तकाः नियतम् ।

(च) ऊर्जस्वला वर्चस्वला अतिनिश्चला विजये।


५ उदाहरणानुसारम् अधोलिखितानां पदानां वचनपरिवर्तनं कुर्वन्तु ।

एकवचनम् – बहुवचनम् 

यथा – शूरः – शूरा:

(क) धीरः – …………

(ख) ……….. – वीराः

(ग) जनसेवकः – ……….

(घ) ……….. – धनकामना:

(ङ) निखिल: – ……….

(च) ……….. – बाला:

उत्तरम्:

(क) धीर: – धीराः

(ख) वीरः – वीराः

(ग) जनसेवक: – जनसेवकाः

(घ) धनकामना – धनकामनाः

(ङ) निखिल: – निखिलाः

(च) बालः – बाला: 


६. उदाहरणं दृष्ट्वा अधोलिखितानि पदानि परस्परं संयोज्य वाक्यानि रचयन्तु ।

क’ – ‘ख’ 

(क) छात्र: पठामि

(ख) छात्रौ पठसि

(ग) छात्राः पठति

(घ) अहम् पठन्ति

(ङ) आवाम् पठथः

(च) वयम् पठथ

(छ) त्वम् पठतः

(ज) युवाम् पठामः

(झ) यूयम् पठाव:

उत्तरम्:

(क) छात्रः पठति ।

(ख) छात्रौ पठतः ।

(ग) छात्राः पठन्ति ।

(घ) अहम् पठामि ।

(ङ) आवाम् पठावः ।

(च) वयम् पठामः ।

(छ) त्वम् पठसि ।

(ज) युवाम् पठथः ।

(झ) यूयम् पठथ। 


७. कोष्ठकात् उचितं पदं स्वीकृत्य रिक्तस्थाने लिखन्तु ।


यथा – तद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः एकवचनम् – ……… सा (एषा / अहम् / सा)


(क) अस्मद् प्रथमा विभक्तिः, एकवचनम् – ………. वयम् / त्वम् / अहम्)

उत्तरम्: अहम्


(ख) युष्मद्, प्रथमा विभक्तिः, द्विवचनम् – ……….. (त्वम्/स: /युवाम्)

उत्तरम्: युवाम्


(ग) तद्, पुंलिङ्गम्, प्रथमा विभक्तिः, बहुवचम् – ……… (एष: /ते/सा)

उत्तरम्: ते


(घ) एतद्, नपुंसकलिङ्गम् प्रथमा विभक्तिः बहुवचनम् – …….. (एतानि / वयम् / तत्)

उत्तरम्: एतानि


(ङ) एतद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः, एकवचनम् – ……… (अहम् / एषा / एतत्)

उत्तरम्: एषा 


(च) तद्, स्त्रीलिङ्गम् प्रथमा विभक्तिः द्विवचनम् – ……… (ते / अहम् / एषा)

उत्तरम्: ते 


८. उदाहरणमनुसृत्य उचितेन पदेन रिक्तस्थानं पूरयन्तु।  

यथा – नायिका नृत्यति । (नृत्)


(क) बालक: ………….। (लिख)

(ख) छात्रौ …………… | (क्रीड्)

(ग) अहम् ………… । (गच्छ)

(घ) कविः ………. । (पश्य्)

(ङ) महिला ………… । (वद्)

(च) देवा: ……….. । (आगच्छ्)

(छ) फलानि ……. । (पत्)

(ज) गृहिण्यः …….. । (उपविश्)

उत्तरम्- 

(क) बालकः लिखति ।

(ख) छात्रौ क्रीडतः ।

(ग) अहम् गच्छामि।

(घ) कविः पश्यति ।

(ङ) महिलाः वदन्ति ।

(च) देवाः आगच्छन्ति ।

(छ) फलानि पतन्ति ।

(ज) गृहिण्यः उपविशन्ति । 


योग्यताविस्तरः  

१. गीतस्य रचनाकारः । 

अस्य गीतस्य रचनाकार: श्रीधरः भास्करः वर्णेकर : अस्ति । एषः सुप्रसिद्धः आधुनिकः कविः अस्ति ।

वर्णेकरमहोदयस्य जन्म महाराष्ट्र राज्ये नागपुरनगरे अभवत् । एषः अनेकानि काव्यानि नाटकानि गीतानि च रचितवान् । वर्णेकरमहोदयः राष्ट्रपतिपुरस्कारेण अपि सम्मानितः अस्ति ।


हिंदी अर्थ –

 इस गीत के रचनाकार श्रीधर भास्कर वर्णेकर हैं। यह सुप्रसिद्ध आधुनिक कवि हैं। वर्णेकर महोदय का जन्म महाराष्ट्र के नागपुर नगर में हुआ। इन्होंने अनेक काव्य, नाटक और गीत लिखें। वर्णेकर महोदय राष्ट्रपति पुरस्कार से भी सम्मानित हैं।



२. अधोलिखितानि शब्दरूपाणि पठन्तु अवगच्छन्तु स्मरन्तु च ।


३. महापुरुषाणां राष्ट्रनायकानां च चित्राणि अधः सन्ति । एते शूराः वीराः धीराः च

आसन् । गीते लिखितान् सर्वान् भावान् एतेषां महापुरुषाणां जीवने वयं पश्यामः ।


हिंदी अर्थ – महापुरुषों और राष्ट्रनायकों के नाम दिए गए हैं। ये शूर वीर और धीर थे। गीत में लिखे सभी भाव इन महापुरुषों के जीवन में हम देखते हैं। जैसे- शङ्कराचार्य, शिवाजी महाराज, स्वामी दयानन्द सरस्वती मदनमोहन मालवीय, रानी लक्ष्मीबाई, स्वामी विवेकानन्द, महर्षि अरविन्द, सुभाषचंद्र बोस, ए. पीजे. अब्दुल कलाम ।


४. एतत् स्तोत्रं ध्यानेन पठन्तु, अवगच्छन्तु स्मरन्तु च।


भारतवर्षस्य केषाञ्चन धीराणां वीराणां कासाञ्चन वीराङ्गनानां च नामोल्लेख:

अधोदत्तेषु श्लोकेषु अस्ति । एतान् श्लोकान् सस्वरं गायन्तु स्मरन्तु च।


अरुन्धत्यनसूया च सावित्री जानकी सती ।

द्रौपदी कण्णगी गार्गी मीरा दुर्गावती तथा ।।

लक्ष्मीरहल्या चन्नम्मा रुद्रमाम्बा सुविक्रमा |

निवेदिता सारदा च प्रणम्याः मातृदेवताः ।

अगस्त्यः कम्बुकौण्डिन्यौ राजेन्द्रश्चोलवंशजः ।

अशोकः पुष्यमित्रश्च खारवेलः सुनीतिमान् ।

रामकृष्णो दयानन्दो रवीन्द्रो राममोहनः ।

रामतीर्थोऽरविन्दश्च विवेकानन्द उद्यशाः ।


छात्राः सस्वरं गायन्तु ।


परियोजनाकार्यम्  

१. अधः प्रदत्तेषु महापुरुषेषु एकस्य लघुजीवनवृतं लिखन्तु । स्वामी विवेकानन्दः / शिवाजि / राणाप्रतापः

उत्तरम्:

स्वामी विवेकानन्दः

स्वामिविवेकानन्दस्य बाल्यकालस्य नाम ‘नरेन्द्रनाथ: आसीत् । तस्य जन्म जनवरिमासे द्वादश दिनांके 1863 ख्रिस्ताब्दे कोलकातानगरे अभवत् । तस्य मातुः नाम ‘भुवनेश्वरी देवी’ आसीत् । तस्य पिता विश्वनाथदत्तः प्रतिष्ठितः अभिभावकः आसीत् । नरेन्द्रनाथः बाल्यकालात् एव कुशाग्रबुद्धि:, मल्लक्रीडायाम् पारंगत: धार्मिकः च आसीत् । तस्य आध्यात्मिक गुरुः रामकृष्णपरमहंसः आसीत् । ‘उत्तिष्ठत जाग्रत प्राप्य वरान् निबोधत’ इति वेदान्तवाणीं सः प्रचारितवान् ।


देशवासिनां दुर्दशां पराधीनतां च दृष्ट्वा तस्य मनः अति दुखितः अभवत् । अमेरिकादेशे शिकागोनगरे अखिलविश्वधार्मिकसम्मेलने भाषणं कृत्वा अयं परमां प्रसिद्धिम् अलभत् । अयं युगपुरुषः अस्माकं देशे संसारे च प्रातः स्मरणीयः अस्ति ।


२. अस्मिन् पाठे प्रयुक्तानां प्रथमाविभक्तेः बहुवचनान्त-पदानां सङ्ग्रहणं कुर्वन्तु ।

दशशब्दानां वाक्ये प्रयोगम् अपि कुर्वन्तु ।

उत्तरम्:

प्रथमा विभक्तेः बहुवचनान्तं पदानां वाक्य प्रयोगम्-


(i) शूराः – भारतीयाः शूराः सन्ति ।

(ii) वीराः – वीराः युद्धे पराजिताः न भवन्ति ।

(iii) वयम् – वयम् देशभक्ताः स्मः ।

(iv) भारतीयाः – भारतीयाः स्नेहशीलाः भवन्ति ।

(v) गुणशालिनः – वयम् गुणशालिनः स्मः ।

(vi) जनसेवकाः – जनसेवकाः सेवां कुर्वन्ति ।

(vii) शुभचिन्तकाः – महापुरुषाः शुभचिन्तकाः भवन्ति ।

(viii) बाला: – बालाः क्रीडाक्षेत्रे खेलन्ति ।

(ix) अतिनिश्चला: – वयम् अतिनिश्चलाः स्मः ।

(x) गतभीतयः भारतीयाः गतभीतयः सन्ति ।


३. अन्यत् संस्कृतदेशभक्तिगीतम् अन्विष्य तस्य सामूहिकं वाचनं कुर्वन्तु ।

उत्तरम्:

देशभक्तिगीतम्-


अमृतस्य पुत्राः वयं

सबलं सदायं नो हृदयम्

गतमितिहासं पुनरुन्नेतुम्

युवसंघटनं नवमिह कर्तुम्।।

भारतकीर्ति दिशि दिशि नेतुं

दृढ़संकल्पा विपदि विजेतुम् ।।

ऋषिसन्देशं जगति नयेम

सत्त्वशालिनो मनसि भवेम ।

कष्टिसमुद्रं सपदि

तेरेम चालितकार्यम् नहि त्यजेम ||




Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।