6.8.2 कक्षा/ Class- VI/6 संस्कृतम्/ Sanskrit सप्तम / Lesson- 8 बुद्धि: सर्वार्थसाधिका: / Bhudhi Sarvarth Sadhika
6.8.2 कक्षा/ Class- VI/6
संस्कृतम्/ Sanskrit
सप्तम / Lesson- 8
बुद्धि: सर्वार्थसाधिका: / Bhudhi Sarvarth Sadhika
वयम् अभ्यासं कुर्म:
१ पाठस्य आधारेण अधोलिखिताना प्रश्नानाम्
उत्तराणि एकपदेन लिखन्तु।
क) सरोवरस्य तीरे सुकोमलभूमौ बिलेषु के
निवसन्ति?
(ख) केषां परिभ्रमणेन शशका: क्षतविक्षता: मृताः
च भवन्ति?
(ग) शशकराज: कस्य समीपं गच्छति?
(घ) के स्वमतं प्रकाशयन्ति?
ङ) क: चन्दरं नमति?
च) के सुखेन तिष्ठन्ति?
उत्तरम्-
(क) शशका:
(ख) गजानाम्
(ग) गजराजस्य
(घ) शशका:
(ङ) गजराज:
(च) शशका:
२. पूणंवाक्येन उत्तराणि लिखन्तु।
क) चन्द्रः कदा प्रसन्न: भवति?
ख) सायङकाले केषां सभा भवति?
(ग) शशका: किमर्थम् उपायं चिन्तयन्ति?
(घ) चन्दर: केन नाम्ना प्रसिद्ध: अस्ति?
(ङ) आम् चन्द्रस्य दर्शनाय आवाम् अधुना एव सरोवरं प्रति चलावः" इति क: कथयति?
उत्तर:
(क) यदा शशका: जीवन्ति तदा एव चन्द: प्रसन्न: भवति।
(ख) सायङ्काले शशकानां सभा भवति।
(ग) शशका: स्वरक्षार्थम् उपायं चिन्तयन्ति।
(प) चन्द्र: 'शशाङ्क:' इति नाम्ना प्रसिद्धः अस्ति।
(ङ) "आम्, चन्द्रस्य दर्शनाय आवाम् अधुना एवं सरोवर प्रति चलाव: ।" इति शशक: कथ्यति।
३ पाठस्य आधारेण पटिटकातः क्रियापदानि चित्वा
वाक्यानि पूरयन्तु।
निवसन्ति चिन्तयन्ति भवति कथयति तिष्ठति
(क) कि चन्द्र: सरोवरे ...................
(ख) सर्वे शशका: उपायं ...................
(ग) सायंकाले शशकाना सभा ...................
(घ) शशका: सरोवरस्य तीरे ...................
(ड) सः गजराजं ...................
उत्तरम्-
(क) तिष्ठति
ख) चिन्तयन्ति
घ) निवसन्ति
(ग) भवति
ङ) कथयति
४ उदाहरणानुसार निम्नलिखितानां पदाना वचन पुरुष
च लिखन्तु।
उत्तरम्
पदम् पुरुषः वचनम्
यथा- चिन्तयति प्रथमपुरुषः एकवचनम्
तिष्ठन्ति प्रथमपुरुषः बहुवचनम्
जीवन्ति प्रथमपुरुषः बहुवचनम्
नमति प्रथमपुरुषः एकवचनम्
कथयति प्रथमपुरुषः एकवचनम्
गच्छति प्रथमपुरुषः एकवचनम्
५ उदाहरणानुसारं समुचितै: क्रियापदै: रिक्तस्थानानि पूरयन्तु।
धातुः एकवचनम् द्विवचनम् बहुवचनम्
यथा- गम् गच्छति गच्छतः गच्छन्ति
उत्तरम्
(क) कथ् कथयति कथयतः कथयन्ति
(ख) स्था तिष्ठति तिष्ठतः तिष्ठन्ति
(ग) कृ करोमि कुर्वः कुर्मः
(घ) जीव् जीवति जीवतः जीवन्ति
(ङ) चल् चलामि चलावः चलामः
-----
६. चित्रस्य आधारेण पञ्च वाक्यानि लिखन्तु।
उत्तरम्-
(क) एतत् चित्रम् उपवनस्य अस्ति।
(ख) एष: वृक्ष: सेवफलस्य अस्ति।
(ग) वृक्षस्य अध: सेवफलानि सन्ति।
(घ) सेवफलानि खादित्वा बालका: प्रसन्ना: भवन्ति।
(ङ) सेवफलस्य वर्ण: रक्तः अस्ति।
अथवा
अस्मिन् चित्रे वृक्ष: अस्ति।
अस्मिन् चित्रे सेवफलानि सन्ति।
अस्मिन् चित्रे वानरः अस्ति।
अस्मिन् चित्रे एक: बालक: अस्ति।
अस्मिन् चित्रे द्वे बालिके स्तः ।
७. अधोलिखितानां पर्यायपदानां मेलनं कृत्वा रिक्तस्थानानि पूरयन्तु!
(क) गजः जलाशयः
(ख) पदम् शशाङक:
(ग) चन्द्रः जनता
(घ) सरोवरः चरण
(ङ) प्रजा हस्ती
उत्तरम्-
(क) गजः हस्ती
(ख) पदम् चरण:
(ग) चन्द्रः शशाङ्कः
(घ) सरोवरः जलाशय:
(ङ) प्रजा जनता
Comments
Post a Comment