6.15.2 कक्षा/ Class- VI/6 संस्कृतम्/ Sanskrit पाठ / Lesson-15 वृक्षाः सत्पुरुषा: इव / VrikshaH SatpurushaaH iv
6.15.2 कक्षा/ Class- VI/6
संस्कृतम्/ Sanskrit
पाठ / Lesson-15
वृक्षाः सत्पुरुषा: इव /
VrikshaH SatpurushaaH iv
वयम् अभ्यासं कुर्म:
१. पाठे लिखितानि सुभाषितानि सस्वरं पठन्तु, अवगच्छन्तु, लिखन्तु स्मरन्तु च।
२. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु।
(क) वृक्षाः स्वयं कुत्र तिष्ठन्ति ?
(ख) परोपकाराय काः वहन्ति?
(ग) दशवापीसमः कः भवति?
(घ) सत्पुरुषाः इव के सन्ति?
(ङ) अर्थिनः केभ्यः विमुखाः न यान्ति?
(च) वृक्षाः स्वयं कानि न खादन्ति?
उत्तरम् -
(क) आतपे
(ख) नद्यः
(ग) हृदः
(घ) वृक्षाः
(ङ) वृक्षेभ्यः / महीरूहेभ्यः
(च) फलानि
३. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखन्तु।
(क) नद्यः किं न पिबन्ति?
(ख) वृक्षाः अस्मभ्यं किं किं यच्छन्ति?
(ग) इदं शरीरं किमर्थम् अस्ति ?
(घ) दशपुत्रसमः कः भवति?
(ङ) केषां विभूतयः परोपकाराय भवन्ति?
(च) अन्यस्य छायां के कुर्वन्ति?
उत्तरम् -
(क) नद्यः स्वयमेव अम्भः न पिबन्ति।
(ख) वृक्षाः अस्मभ्यं पुष्पं, फलं, छायां, मूलं, वल्कलं, दारूं च यच्छन्ति।
(ग) इदं शरीरं परोपकाराय अस्ति।
(घ) दशपुत्रसमः द्रुमः भवति।
(ङ) सतां विभूतयः परोपकाराय भवन्ति।
(च) अन्यस्य छायां वृक्षाः कुर्वन्ति।
४. पट्टिकातः उचितानि पदानि चित्वा रिक्तस्थानानि पूरयन्तु।
तिष्ठन्ति, सुजनस्येव, विभूतयः, वृक्षाः,
फलानि, दशपुत्रः, परोपकाराय,
यथा - छायामन्यस्य कुर्वन्ति तिष्ठन्ति स्वयमातपे।
(क) फलान्यपि परार्थाय ............ सत्पुरुषा इव।
(ख)दशहृदसमः पुत्र ............ समो द्रुमः।
(ग) ............येषां वै विमुखा यान्ति नार्थिनः।
(घ) ............इदं शरीरम्।
(ङ) स्वयं न खादन्ति ............वृक्षाः।
(च) परोपकाराय सतां ............।
उत्तरम् -
(क) वृक्षाः
(ख) दशपुत्रः
(ग) सुजनस्येव
(घ) परोपकाराय
(ङ) फलानि
(च) विभूतयः
५. उदाहरणानुसारम् अधोलिखितेषु वाक्येषु स्थूलाक्षरपदानां विभक्तिं निर्दिशन्तु।
यथा- वृक्षाः अन्यस्य कृते छायां कुर्वन्ति। -
द्वितीया विभक्तिः
(क) वृक्षाः परार्थाय फलानि यच्छन्ति। - ............
(ख) वृक्षाः सत्पुरुषाः इव सन्ति। - ............
(ग) द्रुमः दशसन्तानसमः भवति। - ............
(घ) वृक्षः प्राणिभ्यः काष्ठानि यच्छति। - ............
(ङ) नद्यः जलं स्वयमेव न पिबन्ति। - ............
(च) सज्जनानां सङ्गतिं करोतु। - ............
उत्तरम्-
(क) फलानि - द्वितीया विभक्ति
(ख) सत्पुरुषाः - प्रथमा विभक्ति
(ग) द्रुमः - प्रथमा विभक्ति
(घ) प्राणिभ्यः - चतुर्थी विभक्ति
(ङ) नद्यः - प्रथमा विभक्ति
(च) सङ्ङ्गतिं - द्वितीया विभक्ति
६. अधोलिखितानां पदानां द्विवचने बहुवचने च रूपाणि लिखन्तु।
यथा - वृक्षः वृक्षौ वृक्षाः
(क) मेघः .............. ..............
(ख) हृदः .............. ..............
(ग) सत्पुरुषः .............. ..............
(घ) छाया .............. ..............
(ङ) वापी .............. ..............
(च) नदी .............. ..............
(छ) शरीरम् .............. ..............
(ज) पुष्पम् .............. ..............
उत्तरम्
(क) मेघः मेघौ मेघाः
(ख) हृदः हृदौ हृदा:
(ग) सत्पुरुषः सत्पुरुषौ सत्पुरुषाः
(घ) छाया छाये छायाः
(ङ) वापी वाप्यौ वाप्यः
(च) नदी नद्यौ नद्यः
(छ) शरीरम् शरीरे शरीराणि
(ज) पुष्पम् पुष्पे पुष्पाणि
7. अधोलिखितानां पदानां परस्परं समुचितं मेलनं कृत्वा 'कः किं ददाति' इति लिखन्तु।
(क) वृक्षः - दुग्धम्
वृक्षः शुद्धं वायुं ददाति ।
(ख) गौ: - प्रकाशं
(ग) सूर्यः - विद्यां
(घ) नदी - शुद्धं वायुं
(ङ) अग्निः - जलम्
(च) शिक्षकः - तापं
उत्तरम् -
(क) वृक्षः
वृक्षः शुद्धं वायुं ददाति ।
(ख) गौः
गौः दुग्धं ददाति।
(ग) सूर्यः
सूर्यः प्रकाशं ददाति।
(घ) नदी
नदी जलं ददाति।
(ङ) अग्निः
अग्निः तापं ददाति
(च) शिक्षकः
शिक्षकः विद्यां ददाति ।
८. अधोलिखितानां क्रियापदानां लट्लकारे प्रथमपुरुषस्य रूपाणि लिखन्तु।
यथा-
कुर्वन्ति - करोति कुरुतः कुर्वन्ति
तिष्ठन्ति - ........... .......... ..........
फलन्ति - ........... .......... ..........
यान्ति - ........... .......... ..........
पिबन्ति - ........... .......... ..........
खादन्ति - ........... .......... ..........
उत्तरम् -
तिष्ठन्ति - तिष्ठति तिष्ठतः तिष्ठन्ति
फलन्ति - फलति फलतः फलन्ति
यान्ति - याति यातः यान्ति
पिबन्ति - पिबति पिबतः पिबन्ति
खादन्ति - खादति खादतः खादन्ति
--------------------------------------------------------------
Comments
Post a Comment