Skip to main content

7.5.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -5, सेवा हि परमो धर्मः Class- 7th, Subject - Sanskrit, Lesson-5, Seva hi Parmo DharamH NCERT - दीपकम् / Deepakam

 7.5.2 कक्षा- सप्तमी,  विषय:- संस्कृतम्

            पाठः -5,  सेवा हि परमो धर्मः 

     Class- 7th,  Subject - Sanskrit,  

Lesson-5,  Seva hi Parmo DharamH

           NCERT -  दीपकम् / Deepakam              

       ************************************

📝 वयम् अभ्यासं कुर्मः

प्रश्न 1. अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखन्तु |

1.    कः प्रसिद्धः चिकित्सकः आसीत् ?

उत्तर - नागार्जनः

2.    अन्यस्मिन् दिवसे कौ आगतौ ?

उत्तर - द्वौ युवकौ

3.    कः खिन्नः आसीत् ?  

उत्तर - द्वितीय युवकः

4.    रुग्णस्य परिस्थितिः कथाम् आसीत् ?

उत्तर - शोचनीया

5.    नागार्जनः सहायक रूपेण कं चितवान् ?

उत्तर - द्वितीयं युवकं

6.    कां विना चिकित्सकः न भवति  ?

उत्तर - सेवाभावनाम्

7.    नागार्जनः युवकौ केन मार्गेण गन्तुं सूचितवान् ?

उत्तर - राजमार्गेण

 


प्रश्न 2. अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन  लिखन्तु |

1.    अहोरात्रं नागार्जुनः कुत्र कार्यं करोति स्म ?

उत्तर - नागार्जुनः अहोरात्रं प्रयोगशालायां कार्यं करोति स्म |

2.    नागार्जुनः महाराजं किं निवेदितवान् ?

उत्तर - नागार्जुनः महाराजं निवेदितवान् – “महाराज ! मम चिकित्साकार्याय एकः सहायकः आवश्यकः” इति |

3.    प्रथमः युवकः कथं कार्यं कृतवान् ?

उत्तर - 

प्रथमः युवकः यन्त्रवत् कार्यं कृतवान्।

अथवा 

औषध निर्माणे किमपि कष्टं न अभवत् नागार्जनाय रसायनं दत्तवान् |

4.    द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा किं कृतवान् ?

उत्तर - द्वितीयः युवकः राजमार्गे रोगिणं दृष्ट्वा स्वगृहं नीतवान् सेवा च  कृतवान् |

5.    सेवायाः भावनां विना किं न भवेत् ?

उत्तर - सेवायाः भावनां विना चिकित्सकम्   न भवेत् |  




प्रश्न 3. उदाहरनुसारम् अधोलिखितानां पदानां स्त्रीलिंग रूपाणि लिखन्तु |  

उत्तर -

पदं

एकवचन

बहुवचन

गतवान्

गतवती

गतवत्यः

लिखितवान्

लिखितवती

लिखितवत्यः

खादितवान्

खादितवती

खादितवत्यः

क्रीडितवान्

क्रीडितवती

क्रीडितवत्यः

हसितवान्

हसितवती

हसितवत्यः

निवेदितवान्

निवेदितवती

निवेदितवत्यः

सूचितवान्

सूचितवती

सूचितवत्यः

 

 

प्रश्न 4. उदाहरनुसारम् अधोलिखितानां पदानां पुल्लिंग रूपाणि लिखन्तु |

   उत्तर -       

पदं

एकवचन

बहुवचन

पठितवती

पठितवान्

पठितवन्तः

कृतवती

कृतवान्

कृतवन्तः

दृष्टवती

दृष्टवान्

दृष्टवन्तः

दत्तवती

दत्तवान

दत्तवन्तः

प्रक्षालितवती

प्रक्षालितवान्

प्रक्षालितवन्तः

धावितवती

धावितवान्

धावितवन्तः

 

 

प्रश्न 5. उदाहरनुसारं वाक्यानि परिवर्तयन्तु |

उत्तर – (क) युवकः आपणं गच्छति |

क)         युवकः आपणं गतवान् |

 (ख)   सः रोटिकां खादति |

ख)        सः रोटिकां खादितवान् |

           (ग)    महिला वस्त्रं ददाति |

ग)          महिला वस्त्रं दत्तवती |

 (घ)    बालकः द्विचक्रिकातः पतति |

घ)          बालकः द्विचक्रिकातः पतितवान् |

 (ङ)    पितामही चलचित्रं पश्यति |

ङ)         पितामही चलचित्रं दृष्टवती |

 (च)    अहं गृहपाठं लिखामि |

च)          अहं गृहपाठं लिखितवान् / लिखितवती |

 (च)    त्वं कुत्र गच्छसि |

छ)         त्वं कुत्र गतवान् / गतवती |

 (ज)   अश्वाः वने धावन्ति |

ज)         अश्वाः वने धावितवन्तः |

 (झ)   बालिकाः शीघ्रम् आगच्छन्ति|

झ)         बालिकाः शीघ्रम् आगतवत्यः |

 (ञ)   वयं समुद्र तीरे पयोहिमं खादामः |

ञ)         वयं समुद्र तीरे पयोहिमं खादितवन्तः /  खादितवत्यः |




अत्र इदम् अवधेयम्  


वर्तमानकाल-क्रियापदेन सह ‘सम्’ इति अव्ययस्य योजनने भूतकालस्य अर्थः भवति।  


यथा – सः बाल्ये पुस्त्कानि पठति।  

        सः बाल्ये पुस्त्कानि पठति स्म (अपठत्)।



प्रश्न 6. अनुच्छेदे कोष्ठकेषु केचन धातवः दत्ताः सन्ति | उपरि दत्तम् अवधेयांशं पठित्वा “स्म” इति अव्ययपदम्

         उपयुज्य अनुच्छेदं पुनः लिखन्तु |

     उत्तर –                                            शीर्षकम्: आदर्शः कृषकः

कृषकः प्रतिदिनं कृषिक्षेत्रं गच्छति स्म । जलसेचनं करोति स्म । कीटानां निवारणार्थं जैवौषधं स्थापयति स्म । सः कृषिकार्यं सम्यक् जानाति स्म । अतः अन्ये कृषकाः संशयेन पृच्छन्ति स्म । सः स्वाभिमानेन जीवति स्म । अतः 'अहं कृषकः भूमिपुत्रःइति साभिमानं वदति स्म । सः क्षेत्रे गोमयं योजयति स्मन तु कृतकान् पदार्थान् । अतः व्रीहेः गुणवत्ता अधिका भवति स्म । जनाः जालपुटमाध्यमेन तस्य तण्डुलं क्रीणन्ति स्म । एवं तस्य परिवारस्य सर्वे जनाः कृषिकार्येण ससुखं जीवन्ति स्म । सः सर्वान् वदति स्म "कृषकः न दीनः न च दरिद्रःपरं सर्वेषां पोषकः" इति ।





Comments