7.6.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -6, क्रीडाम वयं श्लोकान्त्याक्षरीम् Class- 7th, Subject - Sanskrit, Lesson-6, Kridaam Vayam Shalokantyaakshreem NCERT - दीपकम् / Deepakam
7.6.2 कक्षा- सप्तमी, विषय:- संस्कृतम्
पाठः -6, क्रीडाम वयं श्लोकान्त्याक्षरीम्
Class- 7th, Subject - Sanskrit,
Lesson-6, Kridaam Vayam Shalokantyaakshreem
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
1. अधः प्रदत्तानां प्रश्नानाम् एकपदेन उत्तरं लिखन्तु -
(क) विद्याहीनाः कीदृशाः किंशुकाः इव न शोभन्ते ?
उत्तरम् - निर्गन्धाः
(ख) धीमतां कालः कथं गच्छति ?
उत्तरम् - काव्यशास्त्रविनोदेन
(ग) केषां कालः निद्रया कलहेन वा गच्छति ?
उत्तरम् - मूर्खाणाम्
(घ) खलस्य विद्या किमर्थम् ?
उत्तरम् - विवादाय
(ङ) सज्जनस्य विद्या किमर्थम् ?
उत्तरम् - ज्ञानाय
(च) चन्द्रः केषां भूषणम् अस्ति ?
उत्तरम् - ताराणाम्
(छ) सर्वधनप्रधानं किम् ?
उत्तरम् - विद्याधनम्
२. अधः प्रदत्तानां प्रश्नानां पूर्णवाक्येन उत्तरं लिखन्तु -
(क) निर्गन्धाः किंशुकाः इव के न शोभन्ते ?
उत्तरम् - निर्गन्धाः किंशुकाः इव विद्याहीनाः न शोभन्ते ।
(ख) मूर्खाणां कालः कथं गच्छति ?
उत्तरम् - मूर्खाणां कालः व्यसनेन, निद्रया, कलहेन वा गच्छति ।
(ग) दुर्जनः विद्यायाः धनस्य शक्तेः च उपयोगं कथं करोति ?
उत्तरम् - दुर्जनः विद्यायाः उपयोगं विवादाय, धनस्य उपयोगं मदाय, शक्तेः उपयोगं परेषाम् पीडनाय च करोति ।
(घ) कीदृशाः मनुष्याः भुवि भारभूताः भवन्ति ?
उत्तरम् - ये मनुष्याः न विद्यां, न तपो, न दानं, न ज्ञानं, न शीलं, न गुणं, न धर्मं च जानन्ति, ते भुवि भारभूताः भवन्ति ।
(ङ) शनैः शनैः कानि साधनीयानि ?
उत्तरम् - शनैः शनैः विद्या, वित्तं, गिरिषु आरोहणं, पञ्चैतानि च साधनीयानि ।
३. उचितान् वाक्यांशान् परस्परं संयोजयन्तु –
उत्तरम् - (क) (ख)
तदा वृत्तिश्च कीर्तिश्च - यदा विद्या भवेत्तव
खलस्य साधोर्विपरीतमेतत् - ज्ञानाय दानाय च रक्षणाय
शनैर्विद्या शनैर्वित्तं - पञ्चैतानि शनैः शनैः
विद्याहीना न शोभन्ते - निर्गन्धा इव किंशुकाः
न चोरहार्यं न च राजहार्यम् - न भातृभाज्यं न च भारकारि
विद्या राजसु पूज्यते - न हि धनम्
अतो धर्मार्थमोक्षेभ्यः - विद्याभ्यासं समाचरेत्
४. उदाहरणानुसारम् अधः रेखाङ्कितानि पदानि आश्रित्य प्रश्ननिर्माणं कुर्वन्तु -
उत्तरम् -
(क) राजा पृथिव्याः भूषणं भवति । - राजा कस्याः भूषणं भवति ?
(ख) साधोः विद्या ज्ञानाय भवति । - कस्य विद्या ज्ञानाय भवति ?
(ग) विद्या गुरूणां गुरुः । - विद्या केषाम् गुरुः ?
(घ) ते मर्त्यलोके भुवि भारभूताः भवन्ति । - ते मर्त्यलोके भुवि कीदृशाः भवन्ति ?
(ङ) विद्याहीनाः न शोभन्ते । - के न शोभन्ते ?
(च) सर्वस्य लोचनं शास्त्रम् । - सर्वस्य लोचनं किम् ?
(छ) विद्या राजसु पूज्यते । - विद्या कुत्र पूज्यते ?
(ज) काव्यशास्त्रविनोदेन कालो गच्छति धीमताम् । - केन कालो गच्छति धीमताम् ?
५. मञ्जूषातः समुचितानि पदानि स्वीकृत्य रिक्तस्थानानि पूरयन्तु –
( रक्षणाय, मदाय, विवादाय, परिपीडनाय, ज्ञानाय, दानाय )
उत्तरम् - सज्जनस्य - दुर्जनस्य
शक्तिः - रक्षणाय - शक्तिः - मदाय
विद्या - ज्ञानाय - विद्या - विवादाय
धनम् - दानाय - धनम् - परिपीडनाय
६. उदाहरणानुसारम् अधोलिखितानां पदानां विभक्तिं वचनं च
उत्तरम् -
यथा – ताराणाम् – षष्ठी विभक्तिः - बहुवचनम्
(क) विद्याम् – द्वितीया विभक्तिः - एकवचनम्
(ख) धनस्य – षष्ठी विभक्तिः - एकवचनम्
(ग) कलहेन – तृतीया विभक्तिः - एकवचनम्
(घ) नराणाम् – षष्ठी विभक्तिः - बहुवचनम्
(ङ) मर्त्यलोके – सप्तमी विभक्तिः - एकवचनम्
(च) ज्ञानाय – चतुर्थी विभक्तिः - एकवचनम्
(छ) राजसु – सप्तमी विभक्तिः - बहुवचनम्
-----------------------------
Comments
Post a Comment