8.5.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 5 गीता सुगीता कर्तव्या Class- 8th, Subject - Sanskrit, Lesson-5 Geeta Sugeeta Kartavya NCERT - दीपकम् / Deepakam
8.5.2 कक्षा- अष्टमी, विषय:- संस्कृतम्
पाठ - 5 गीता सुगीता कर्तव्या
Class- 8th, Subject - Sanskrit,
Lesson-5 Geeta Sugeeta Kartavya
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
अभ्यास प्रश्न
१. अधोलिखितानां प्रश्नानाम् एकपदेन उत्तरं लिखत -
(क) श्रद्धावान् जनः किं लभते?
उत्तर - ज्ञानम्
(ख) कस्मात् सम्मोहः जायते?
उत्तर - सङ्गात्
(ग) सम्मोहात् किं जायते?
उत्तर - स्मृतिविभ्रमः
(घ) अर्जुनाय गीतां कः उपदिष्टवान्?
उत्तर - कृष्णः
(ङ) हर्षामर्षभयोद्वेगैः मुक्तः नरः कस्य प्रियः भवति?
उत्तर - मम (ईश्वरस्य)
२. पूर्णवाक्येन उत्तरं लिखत -
(क) कीदृशं वाक्यं वाङ्मयं तपः उच्यते?
उत्तर - अनुद्वेगकरं सत्यं प्रियं हितं च यत् वाक्यं तत् वाङ्मयं तपः उच्यते।
(ख) कीदृशः जनः स्थितधीः उच्यते?
उत्तर - दुःखेषु अनुद्विग्नमनाः सुखेषु विगतस्पृहः वीतरागभयक्रोधः च यः जनः सः स्थितधीः उच्यते।
(ग) जनः कथं प्रणश्यति?
उत्तर - ध्यायतो विषयान् पुंसः सङ्गः तेषूपजायते। सङ्गात् सञ्जायते कामः कामात् क्रोधोऽभिजायते । क्रोधात् भवति सम्मोहः सम्मोहात् स्मृतिविभ्रमः । स्मृतिभ्रंशात् बुद्धिनाशो बुद्धिनाशात् प्रणश्यति ।
(घ) जनः कथम् उत्तमां शान्तिं प्राप्नोति?
उत्तर - यः सर्वकामान् त्यक्त्वा निर्ममो निरहङ्कारः चरति, सः उत्तमां शान्तिं प्राप्नोति।
(ङ) उपदेशप्राप्तये त्रयः उपायाः के भवन्ति?
उत्तर - उपदेशप्राप्तये त्रयः उपायाः भवन्ति - प्रणिपातेन, परिप्रश्नेन, सेवया च।
3. कोष्ठके दत्तानि पदानि उपयुज्य वाक्यानि रचयत -
उत्तर - (क) अनुद्वेगकरं सत्यं प्रियहितं च वाक्यं वाङ्मयं तपः उच्यते।
(ख) सततं सन्तुष्टः दृढनिश्चयः च योगी भवति।
(ग) अनुद्विग्नमनाः मुनिः स्थितधीः उच्यते।
(घ) तद् आत्मज्ञानं प्रणिपातेन परिप्रश्नेन सेवया च विद्धि।
(ङ) सम्मोहात् स्मृतिविभ्रमः भवति।
4. अधोलिखितानि पदानि उपयुज्य वाक्यानि रचयत -
उत्तर - (क) उच्यते - गुरुः शिष्यं धर्मं उच्यते।
(ख) च - रामः लक्ष्मणः च वनं गतौ।
(ग) न - सः सत्यं न वदति।
(घ) लब्ध्वा - सः धनं लब्ध्वा प्रसन्नः अभवत्।
(ङ) कुर्यात् - सः कार्यं कुर्यात्।
5. पाठानुसारं समुचितेन पदेन श्लोकं पूरयत -
उत्तर - (क) श्रद्धावाँल्लभते ज्ञानं तत्परः संयतेंद्रियः।
(ख) स्वाध्यायाभ्यसनं चैव वाङ्गयं तप उच्यते।
(ग) सन्तुष्टः सततं योगी यतात्मा दृढनिश्चयः।
(घ) क्रोधात् भवति सम्मोहः सम्मोहात्स्मृतिविभ्रमः ।
(ङ) तद्विद्धि प्रणिपातेन परिप्रश्नेन सेवया।
6. उदाहरणानुसारं पदानि स्त्रीलिङ्गे परिवर्तयत -
उत्तर -
उदाहरणम् – श्रद्धावान् - श्रद्धावती
बुद्धिमान् - बुद्धिमती
क. गुणवान् - गुणवती
ख. आयुष्मान् - आयुष्मती
ग. क्षमावान् - क्षमावती
घ. ज्ञानवान् - ज्ञानवती
ङ. श्रीमान् - श्रीमती
7. समुचितेन पदेन सह स्तम्भौ मेलयत -
उत्तर - (क) सर्वभूतानाम् - सर्वेषां प्राणिनाम्
(ख) अनुद्विग्नमनाः - यस्य मनः विचलितं न भवति
(ग) स्थितधीः - स्थिरमतिमान्
(घ) परिप्रश्नेन - पुनः पुनः प्रश्नकरणेन
(ङ) संयतेन्द्रियः - इन्द्रियसंयमी
8. श्रीमद्भगवद्गीतायाः विषये पञ्च वाक्यानि लिखत -
उत्तर - (क) श्रीमद्भगवद्गीता हिन्दुधर्मस्य प्रमुखः ग्रन्थः अस्ति ।
(ख) एषः ग्रन्थः महाभारतस्य भीष्मपर्वणः भागः अस्ति ।
(ग) अत्र भगवान् श्रीकृष्णः अर्जुनाय उपदेशं दत्तवान् ।
(घ) गीता कर्मयोगं, ज्ञानयोगं, भक्तियोगं च प्रतिपादयति ।
(ङ) इयं जीवनस्य सारं, धर्मस्य च मार्गं दर्शयति ।
Comments
Post a Comment