6.11.1 कक्षा/ Class- VI/6 संस्कृतम्/ Sanskrit पाठ / Lesson- 11 पृथिव्यां त्रीणि रत्नानि / Prithivyaam Trini Ratnaani
6.11.1 कक्षा/ Class- VI/6
संस्कृतम्/ Sanskrit
पाठ / Lesson- 11
पृथिव्यां त्रीणि रत्नानि / Prithivyaam Trini Ratnaani
पृथिव्यां त्रीणि रत्नानि, जलम् अन्नं सुभाषितम् ।
मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते।।
पदच्छेद:-
पृथिव्यां त्रीणि रत्नानि जलम् अन्नम् सुभाषितं मूढैः पाषाण – खण्डेषु रत्न – संज्ञा विधीयते ।
अन्वयः –
पृथिव्यां जलम् अन्नं सुभाषितम् (इति) त्रीणि रत्नानि (सन्ति) । मूढैः पाषाणखण्डेषु रत्नसंज्ञा विधीयते ।
भावार्थ:-
पृथिव्यां त्रीणि रत्नानि सन्ति । तानि रत्नानि जलम् अन्नं सुभाषितं च भवन्ति । किन्तु मूर्खजना: तु पाषाणखण्डान् रत्नानि इति वदन्ति ।
शब्दार्था:-
पृथिव्याम् – पृथ्वी पर ।
त्रीणि-तीन ।
मूढैः – मूर्ख लोगों के द्वारा।
पाषाण – पत्थर |
संज्ञा – नाम |
सरलार्थ -
पृथिवी पर जल, अन्न और सुभाषित – ये तीन ही रत्न हैं। मूर्ख लोगों के द्वारा (हीरा, मोती, पुखराज आदि) पत्थर के टुकड़ों का नाम ‘रत्न’ दिया गया है।
अयं निजः परो वेति गणना लघुचेतसाम् ।
उदारचरितानां तु वसुधैव कुटुम्बकम् ॥
पदच्छेद:- अयं निजः परः वा इति गणना लघुचेतसाम् उदारचरितानां तु वसुधा एव कुटुम्बकम्।
अन्वयः – अयं निजः परः वा इति गणना लघुचेतसां (जनानां भवति) । उदारचरितानां (जनानां) तु वसुधा एव कुटुम्बकम् (भवति)।
भावार्थ:- एषः स्वजनः अस्ति, एषः च परः जनः अस्ति इति एतादृशं चिन्तनं तु सङ्कुचितभावयुक्तानां जनानां भवति । येषाम् उदारस्वभावः अस्ति तेषां कृते तु सम्पूर्णा पृथ्वी एव परिवारः भवति ।
शब्दार्था:-
निजः – मेरा |
परः – पराया ।
लघु – छोटा ।
चेतसाम् – दिल वाले |
वसुधा – पृथ्वी ।
एव – ही।
सरलार्थ -
यह मेरा है, यह पराया है – ऐसी सोच (गणना) छोटे दिल वाले (लोगों) की होती है । उदार हृदय वालों के लिए (सम्पूर्ण) पृथ्वी ही परिवार है।
Comments
Post a Comment