7.10.2 कक्षा- सप्तमी, विषय:- संस्कृतम् पाठः -10, दशमः कः? Class- 7th, Subject - Sanskrit, Lesson-10, Dashama Kaha NCERT - दीपकम् / Deepakam
7.10.2 कक्षा- सप्तमी, विषय:- संस्कृतम्
पाठः -10, दशमः कः?
Class- 7th, Subject - Sanskrit,
Lesson-10, Dashama Kaha
NCERT - दीपकम् / Deepakam
************************************
1. कोष्ठकात् समीचीनम् उत्तरं चित्वा लिखन्तु।
(क) कति बालकाः स्नातुं गता:? (पञ्च, द्वादश, दश)
उत्तरम्: दश
(ख) कतमः बालकः नद्यां मग्नः इति निश्चयम् अकुर्वन्? (प्रथम, दशमः, पञ्चमः)
उत्तरम्: दशमः
(ग) दशमः कः आसीत्? (नायक:, पथिकः, नदी)
उत्तरम्: नायक:
(घ) कः सम्यक् रूपेण बालकान् गणितवान्? (नायक:, पथिकः, बालकः)
उत्तरम्: पथिकः
(ङ) बालकाः कां तीर्त्वा पारं गताः? (पुष्करिणीम्, समुद्रम्, नदीम्)
उत्तरम्: नदीम्
2. पाठस्य आधारेण एकवाक्येन प्रश्नानाम् उत्तराणि लिखन्तु-
(क) दश बालकाः किमर्थं नदीम् अगच्छन्?
उत्तरम्: दश बालकाः स्नानाय नदीम् अगच्छन्।
(ख) नायक: किम् अपृच्छत्?
उत्तरम्: नायक: अपृच्छत्, “अपि सर्वे बालकाः नदीम् उत्तीर्णाः?”
(ग) बालकाः स्नानाय कुत्र अगच्छन्?
उत्तरम्: बालकाः स्नानाय नदीम् अगच्छन्।
(घ) बालकाः किं निश्चयम् अकुर्वन्?
उत्तरम्: बालकाः निश्चयम् अकुर्वन् यत् दशमः नद्यां मग्नः।
उत्तरम्: बालकाः आनन्देन गृहम् अगच्छन्।
(क) करे _________________ अङ्गुलिः भवति तर्जनी।(ख) अनामिका _________________ अङ्गुलिः भवति।
(ग) करे _________________ अङ्गुलिः भवति अङगुष्ठः।
(घ) कनिष्ठिका _________________ अङ्गुलिः भवति।
(ङ) करे _________________ अङ्गुलिः भवति मध्यमा।
उत्तरम्:
(क) द्वितीया
(ख) चतुर्थी
(ग) प्रथमा
(घ) पञ्चमी
(ङ) तृतीया
4. पट्टिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु।
(क) सप्ताहस्य प्रथमः दिवसः कः? _____________________
(ख) सप्ताहस्य कतमः दिवसः रविवासरः अस्ति? _____________________
(ग) सप्ताहस्य षष्ठः दिवसः कः? _____________________
(घ) सप्ताहस्य कतमः दिवस: शनिवासरः अस्ति? _____________________
(ङ) सप्ताहस्य अन्तिम दिवसः कः अस्ति? _____________________
उत्तरम्:
(क) रविवासरः
(ख) प्रथमः
(ग) शुक्रवासरः
(घ) सप्तमः
(ङ) शनिवासर
5. वाटिकां दृष्ट्वा प्रश्नानाम् उत्तराणि लिखन्तु ।
(पट्टिका को देखकर प्रश्नों के उत्तर लिखिए।)
.png)
(क) मासेषु पञ्चमः मासः कः ?
उत्तरः श्रावण:
(ख) मार्गशीर्षः कतमः मासः अस्ति ?
उत्तरः नवमः
(ग) मासेषु दशमः मासः कः ?
उत्तरः पौषः
(घ) कार्त्तिकः कतमः मासः अस्ति ?
उत्तरः अष्टमः
(ङ) मासेषु अन्तिमः मासः कः ?
उत्तरः फाल्गुनः
(मंजूषा देखिए और उत्तर लिखिए ।)
(क) आङ्ग्लमासेषु दशमः मासः ……………… ।
उत्तरः अक्तूबरमासः
(ख) फरवरीमासः ……………… मासः अस्ति ।
उत्तरः द्वितीयः
(ग) आङ्ग्लमासेषु अष्टमः मासः ……………… ।
उत्तरः अगस्तमासः
(घ) सितम्बरमास: …….. मासः अस्ति ।
उत्तरः नवमः
(ङ) आङ्ग्लमासेषु अन्तिमः मासः …………।
उत्तरः दिसंबरमासः
७. अधोलिखिते गद्यांशे अङ्कानां स्थाने संख्यावाचकशब्दान् लिखन्तु ।
(निम्नलिखित गद्यांश में अंकों के स्थान पर संख्यावाचक शब्द लिखिए।)
यथा- (१) पाठशाला – एका पाठशाला ।
उत्तरः एका (1) पाठशाला अस्ति । तत्र त्रयः (3)अध्यापकाः सन्ति । साहित्यकक्षायां विंशतिः (20) छात्राः सन्ति । एकस्मिन् दिने एकः (1) निरीक्षकः आगतवान् । तस्मिन् दिने साहित्यकक्षायां पञ्चदश (15) छात्राः उपस्थिताः । पञ्च (5) अनुपस्थिताः । निरीक्षकः दश (10) शब्दान् लेखितुम् उक्तवान् । द्वौ (2) छात्रौ सप्त शब्दान् सम्यक् लिखितवन्तौ । एकः (1) छात्रः सर्वान् अपि दश (10) शब्दान् सम्यक् लिखितवान् । अवशिष्टाः द्वादश (12) छात्राः नव (9) शब्दान् सम्यक् लिखितवन्तः ।
------
.png)
.png)
Comments
Post a Comment