8.6.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 6 डिजिभारतम् - युगपरिवर्तनम् Class- 8th, Subject - Sanskrit, Lesson-6 DijiBhartam - Yug Parivartanam NCERT - दीपकम् / Deepakam
8.6.2 कक्षा- अष्टमी, विषय:- संस्कृतम्
पाठ - 6 डिजिभारतम् - युगपरिवर्तनम्
Class- 8th, Subject - Sanskrit,
Lesson-6 DijiBhartam - Yug Parivartanam
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
अभ्यास कार्यम्
1. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि एकपदेन लिखत –
(क) प्रधानमन्त्रिसङ्ग्रहालये कीदृशी प्रौद्योगिकी प्रयुक्ता अस्ति ?
उत्तरम् - डिजिटल् प्रौद्योगिकी |
(ख) हॉलोग्राम्-द्वारा कस्य भाषणं दृश्यते ?
उत्तरम् - प्रधानमन्त्रिणः |
(ग) कस्याः प्रभावः दैनन्दिनजीवने दृश्यते ?
उत्तरम् - डिजिटल् योजनायाः |
(घ) भारत-सर्वकारस्य महत्त्वाकाङ्क्षिणी योजना का अस्ति ?
उत्तरम् - डिजिटल इण्डिया |
(ङ) 'फ़ास्टॅग्' इत्यस्य उपयोगेन कस्य सङ्ग्रहणं भवति ?
उत्तरम् - मार्गशुल्कस्य |
2. पाठस्य आधारेण अधोलिखितानां प्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत –
(क) प्रधानमन्त्रिसङ्ग्रहालये काः डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति?
उत्तरम् - प्रधानमन्त्रिसङ्ग्रहालये अत्याधुनिक-प्रदर्शन-प्रणाल्यः, होलोग्राम्, संवर्धित-वास्तविकता (Augmented Reality), अन्तर्क्रियात्मक-किओस्क (Interactive Kiosks) च डिजिटल्-प्रौद्योगिक्यः प्रदर्शिताः सन्ति ।
(ख) जनाः किमर्थं साङ्गणिक-अपराधेन पीडिताः भवन्ति?
उत्तरम् - जनाः अङ्कीय-साक्षरतायाः अभावात्, सुरक्षा-नियमानाम् अनभिज्ञतायाः, तथा च अनधिकृत-लिङ्क्स्-उपरि क्लिक्-करणात् साङ्गणिक-अपराधेन पीडिताः भवन्ति।
( ग) यशिका 'डिजि-लॉकर्' इत्यस्य उपयोगं कथं करोति ?
उत्तरम् - मम आधारपत्रं विद्यालयीयं प्रमाणपत्रं च तत्र सुरक्षितम् अस्ति |
(घ) डिजिटल्-भारतस्य वित्तीय-समावेशने काः योजनाः सन्ति ?
उत्तरम् – जनधन-योजना, भीम्-आप् (BHIM App), रूपे-कार्ड्, आधार-संलग्न-बैंक-खाता, डिजिटल्-पेमेंट्-सुविधाः, मोबाइल्-बैंकिङ् इत्यादयः योजनाः वित्तीय-समावेशने प्रयुक्ताः सन्ति।
(ङ) डिजिटल्-भारते शिक्षायाः क्षेत्रे केषां पटलानाम् उपयोगः करणीयः ?
उत्तरम् – स्वयम् (SWAYAM), दीक्षा (DIKSHA), ई- पाठशाला, एनपीटीईएल् (NPTEL), ई-विद्याभारती, राष्ट्रीय-डिजिटल्-पुस्तकालयः, इत्येते पटलाः शिक्षायाम् उपयोग्याः सन्ति।
(च) ग्राम्य-क्षेत्रेषु डिजिटल्-सेवानां समस्या कथं निराकर्तुं शक्यते ?
उत्तरम् – ग्रामेषु द्रुतगत्याः इन्टरनेट्-सेवा-विस्तारः, डिजिटल्-शिक्षणस्य प्रसारः, किफायतदरेण मोबाइल्-डाटाप्लान्-प्रदानम्, ग्राम्य-जनानां डिजिटल्-साक्षरता-वर्धनम्, शासनस्य सहायता-केन्द्राणि स्थापयित्वा समस्याः निराकर्तुं शक्यन्ते।
3. अधः दत्तान् शब्दान् सम्यक् संयोजयत –
उत्तरम् - क्रमः शब्दः - संयोजनीयः शब्दः
क. हॉलोग्राम् - आभासीया-वास्तविकता
ख. यूपीआय् (UPI) - शीघ्रं, सुरक्षितं, सुगमं च डिजिटल्-धनदेय-प्रत्यर्पणम्
ग. डिजि-लॉकर् - डिजिटल्-प्रमाणपत्रम्
घ. फ़ास्टॅग् (FASTag) - राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणम्
ङ. वीआर (VR) - कृत्रिम-बुद्धिः (AI)
4. अधः प्रदत्तमञ्जूषातः शब्दान् चित्वा रिक्तस्थानानि पूरयत –
(यूपीआई, दीक्षा, प्रधानमन्त्रिणः भाषणं, स्वचालितं पारदर्शकं च, जीवन)
उत्तरम् -
(क) प्रधानमन्त्रिसङ्ग्रहालये हॉलोग्राम्-द्वारा प्रधानमन्त्रिणः भाषणं दृश्यते ।
(ख) डिजिटल्-भारतस्य आर्थिकसमावेशनं सुगमं कर्तुं यूपीआय् प्रणाली अस्ति।
(ग) डिजिटल्-शासनं स्वचालितं पारदर्शकं च सेवां प्रददाति ।
(घ) डिजिटल्-भारतस्य शिक्षाक्षेत्रे दीक्षा नाम डिजिटल्-शैक्षिकमञ्चः अस्ति।
(ङ) भारतस्य डिजिटल्-परिवर्तनं सर्वाणि जीवन क्षेत्राणि स्पृशति ।
5. अधः अस्मिन् पाठे आगतानां शब्दान् आधारेण शब्दजालं प्रदत्तम् अस्ति | अत्र वामतः दक्षिणम् उपरितः अधः च आधारं कृत्वा उदाहरणानुसारं शब्दान् रेखाङ्कयत –
डिजिटल् सेवा भारत ज्ञानम्
शिक्षा स्वयं तन्त्र अर्थम्
6. अधोलिखितान् शब्दान् वर्गद्वये विभजत – सङ्गणकसम्बद्धाः, असङ्गणकसम्बद्धाः च –
(शब्दाः – अन्तर्जालम्, शिक्षिका, सङ्गणकः, विद्यालयः, ई-पत्रम्, पाठ्यपुस्तकम्, डिजिटल, लेखनी)
उत्तरम् -
सङ्गणकसम्बद्धाः असङ्गणकसम्बद्धाः
अन्तर्जालम्, शिक्षिका
सङ्गणकः विद्यालयः
ई-पत्रम् पाठ्यपुस्तकम्
डिजिटल लेखनी
7. शुद्धम् (√) वा अशुद्धम् (x) वा चिह्नीकुरुत –
उत्तरम् -
(क) हॉलोग्राम् कृत्रिमबुद्धेः एकः प्रकारः अस्ति । (x)
(ख) वर्धित-वास्तविकतायाः उपयोगिता ऐतिहासिक घटनानां प्रत्यक्षानुभवाय अस्ति । (√)
(ग) डिजिटल्-प्रक्षेपण-मानचित्रं भारतस्य विकासयात्रां प्रदर्शयति । (√)
(घ) फ़ास्टॅग् इति राजमार्गेषु स्वचालितविधिना मार्गशुल्कस्य शीघ्रं संग्रहणं करोति । (√)
(ङ) डिजी-लॉकर् इत्यस्य माध्यमेन केवलम् आधार-पत्रं सुरक्षितुं शक्यते । (x)
(च) भारतस्य डिजिटल्-परिवर्तनं केवलं शासने प्रभावं करोति, नागरिकजीवने न । (x)
(छ) उमङ्ग, माय्-गव्, जेम् इत्यादयः ई-शासन-मञ्चाः सन्ति । (√)
8. अव्यवस्थितान् वर्णान् शब्ददृष्ट्या व्यवस्थितरूपेण लिखत -
उदाहरणम् - वेयवित्तीसमानशम् = वित्तीयसमावेशनम्
उत्तरम् - (क) कसङ्गम्ण = संगणकम्
(ख) कार्वसरः = सर्वरः
(ग) लयःविद्या = विद्यालयः
(घ) जिकडिलॉर् = डिजिलॉकर
(ङ) शक्तसुम् = सक्षमम्
9. अधोलिखितं परिच्छेदं पठित्वा प्रश्नानाम् उत्तराणि लिखत -
(क) अद्यतनं युगं कीदृशम् अस्ति ?
उत्तरम् - अद्यतनं युगं विज्ञानयुगम् अस्ति ।
(ख) मानवाः केषां साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ?
उत्तरम् - मानवाः अन्तर्जालस्य, सचलदूरवाण्याः, सङ्गणकस्य च साहाय्येन कार्याणि शीघ्रं कुर्वन्ति ।
(ग) ई-अधिगम-प्रणाल्याः प्रयोगं के कुर्वन्ति ?
उत्तरम् - ई-अधिगम-प्रणाल्याः प्रयोगं विद्यार्थिनः कुर्वन्ति ।
.png)
Comments
Post a Comment