8.13.2 कक्षा- अष्टमी, विषय:- संस्कृतम् पाठ - 13 वर्णोच्चारण-शिक्षा १ Class- 9th, Subject - Sanskrit, Lesson-13 VarnoChharan Shiksha NCERT - दीपकम् / Deepakam
8.13.2 कक्षा- अष्टमी, विषय:- संस्कृतम्
पाठ - 13 वर्णोच्चारण-शिक्षा १
Class- 9th, Subject - Sanskrit,
Lesson-13 VarnoChharan Shiksha
NCERT - दीपकम् / Deepakam
************************************
📝 वयम् अभ्यासं कुर्मः
अभ्यासात् जायते सिद्धिः
१. अधोलिखितप्रश्नानाम् उत्तराणि एकपदेन द्विपदेन वा उत्तरत-
(क) उरसि किं तन्त्रं भवति ?
उत्तरम् : वायु-बल-तन्त्रम्
(ख) नाभिप्रदेशे स्थिताः मांसपेश्यः किं नोदयन्ति ?
उत्तरम् : उर:
(ग) आस्यस्य आभ्यन्तरे वार्णानाम् उत्पत्त्यर्थं द्वितीयं तत्त्वं किम् अस्ति ?
उत्तरम् : करणम्
(घ) आस्ये कति स्थानानि सन्ति?
उत्तरम् : षट्
(ङ) स्थानस्य कार्यनिदर्शनार्थं किं समुचितम् उदाहरणम् अस्ति ?
उत्तरम् : ‘मुरली’
(च) करणानि मुरल्याः कस्य भागम् इव व्यवहरन्ति ?
उत्तरम् : आस्यस्य स्थानानि
२. अधोलिखितप्रश्नानाम् उत्तराणि पूर्णवाक्येन लिखत-
(क) करणं किं भवति ?
उत्तरम् : वर्णस्य उच्चारण-समये, आस्यस्य यः भागः स्थानं स्पृशति, स्थानस्य समीपं वा याति, सः भागः–‘करणम्’ इति कथ्यते ।
(ख) उरः श्वासकोशस्थितं वायुं कुत्र निःसारयति ?
उत्तरम् : उरः श्वासकोशस्थितं वायुम् ऊर्ध्वं निःसारयति ।
(ग) मुरल्याः अङ्गुलिच्छिद्राणि कीदृशं व्यवहरन्ति ?
उत्तरम् : मुरल्याः अङ्गुलिच्छिद्राणि आस्यस्य स्थानानि इव व्यवहरन्ति ।
(घ) केषां वार्णानाम् उच्चारणे जिह्वा प्रायः निष्क्रिया भवति ?
उत्तरम् : कण्ठ्यानाम्, ओष्ठ्यानां नासिक्यानां च वर्णानाम् उच्चारणे जिह्वा निष्क्रिया भवति।
(ङ) तालव्यानां, मूर्धन्यानां दन्त्यानां च वर्णानाम् उच्चारणार्थं सामान्यं करणं किम् अस्ति ?
उत्तरम् : तालव्यानां, मूर्धन्यानां दन्त्यानां च वर्णानाम् उच्चारणार्थं सामान्यं करणं जिह्वा करणं अस्ति ।
(च) कण्ठ्यानां, ओष्ठ्यानां नासिक्यानां च वर्णानाम् उच्चारणार्थं स्थानस्य करणस्य च मध्ये किं भवति?
उत्तरम् : कण्ठ्यानां, ओष्ठ्यानां नासिक्यानां च वर्णानाम् उच्चारणार्थं स्थानस्य करणस्य च मध्ये ‘स्वस्थानं’ भवति ।
३. अधोलिखितेषु वाक्येषु आम् / न इति लिखित्वा उचितभावं सूचयत-
(क) श्वासकोशस्थितः वायुः ऊर्ध्वं चरन् पूर्वम् आस्यं प्राप्नोति ।
उत्तरम् : न ।
(ख) सर्वप्रथमं नाभि – प्रदेशे स्थिताः मांसपेश्याः कण्ठं नोदयन्ति।
उत्तरम् : न ।
(ग) आस्यस्य आभ्यन्तरे वर्णानाम् उत्पत्त्यर्थम् आभ्यन्तर-प्रयत्नः आवश्यकम् अस्ति ।
उत्तरम् : आम् ।
(घ) तालव्य-वर्णनाम् उच्चारणार्थं दन्तः स्थानं स्पृशति ।
उत्तरम् : न ।
(ङ) मूर्धन्यानां वर्णानाम् उच्चारणार्थं जिह्वा स्थानं स्पृशति।
उत्तरम् : आम् ।
(च) तत्तत्स्थानस्य एव कश्चित् पूर्वभागः, तत्तत्स्थानस्य परभागं स्पृशति ।
उत्तरम् : न ।
४. मुखे उपलभ्यमानानि स्थानानि बहिष्ठात् अन्तः यथाक्रमं (अर्थात् विपरीत क्रमेण) लिखन्तु-
(ङ) ओष्ठः
(ख) दन्तः
(ग) तालु
(क) मूर्धा
(घ) कण्ठः
5. यथायोग्यं मेलनं कुरुत-
उत्तरम् :
सामान्य- स्थानम् | विशेष- स्थानम् | सामान्य- करणम् | विशेष-करणम् |
ओष्ठः | उत्तरोष्ठः | स्वस्थानं करणम् | अधरोष्ठः |
दन्तः | दन्तः | जिह्वा करणम् | जिह्वोपाग्र: |
नासिका | नासिकामूलस्य उपरिभागः | स्वस्थानं करणम् | कण्ठस्य अग्र |
कण्ठः | कण्ठस्य पृष्ठभाग: | जिह्वा करणम् | जिह्वामध्यः |
मूर्धा | मूर्धा | स्वस्थानं करणम् | नासिकामूलस्य अधोभागः |
तालु | तालु | जिह्वा करणम् | जिह्वाग्र: |
.png)
.png)
Comments
Post a Comment