6.6.2 कक्षा -अष्टमी, विषय:-संस्कृतम्, षष्ठः पाठ: (समुद्रतटः ) Class-8th, Subject-Sanskrit, Lesson- 6 (SamudrTath) Abhyaas
6.6.2 कक्षा -अष्टमी, विषय:-संस्कृतम्,
षष्ठः पाठ: (समुद्रतटः)
Class-8th, Subject-Sanskrit,
Lesson- 6 (SamudrTath) Abhyaas
************************************
नमो नमः।
अष्टमकक्ष्यायाः रुचिरा भाग-3 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम् ।
अधुना वयं षष्ठ-पाठस्य अभ्यासकार्यं कुर्म: ।
पाठस्य नाम अस्ति
समुद्रतटः
अहं डॉ. विपिन:।
************************************
षष्ठः पाठः - समुद्रतटः
अभ्यास: (Exercise)
1-उच्चारणं कुरुत-
तरंगै: मत्स्यजीविनः विदेशिपर्यटकेभ्यः
संगमः तिसृषु वैदेशिकव्यापाराय
प्रायद्वीपः बंगोपसागरः चन्द्रोदयः
2- अधोलिखितानां प्रश्नानाम् उत्तरं लिखत-
(क) जनाः काभिः जलविहारं कुर्वन्ति?
उत्तरम्- जनाः नौकाभिः जलविहारं कुर्वन्ति।
(ख) भारतस्य दीर्घतमः समुद्रतटः कः ?
उत्तरम्- भारतस्य दीर्घतमः समुद्रतटः चेन्नईनगरस्य मेरीनातटः अस्ति।
(ग) जनाः कुत्र स्वैरं विहरन्ति?
उत्तरम्- जनाः मुम्बईनगरस्य जुहूतटे स्वैरं विहरन्ति।
(घ) बालकाः बालुकाभिः किं रचयन्ति?
उत्तरम्- बालकाः बालुकाभिः बालुकागृहं रचयन्ति।
(घ) कोच्चितटः केभ्यः ज्ञायते?
उत्तरम्- कोच्चितटः नारिकेलफलेभ्यः ज्ञायते।
3- मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
बंगोपसागरः प्रायद्वीपः पर्यटनाय क्रीडा संगमः
(क) कन्याकुमारीतटे त्रयाणां सागराणां संगमः भवति।
(ख) भारतदेशः प्रायद्वीपः इति कथ्यते।
(ग) जनाः समुद्रतटं पर्यटनाय आगच्छन्ति।
(घ) बालेभ्यः क्रीडा रोचते।
(ङ) भारतस्य पूर्वदिशायां बंगोपसागरः अस्ति।
4- यथायोग्यं योजयत-
समुद्रतटः पर्यटनाय - घूमने के लिए (चतुर्थी विभक्ति)
क्रीडनकम् खेलनाय - खेलने के लिए
दुग्धम् पोषणाय - षोषण के लिए
दीपकः प्रकाशाय - प्रकाश के लिए
विद्या ज्ञानाय - ज्ञान के लिए
5- तृतीयाविभक्तिप्रयोगेण रितक्तस्थानानि पूरयत-
यथा- व्योमः मित्रेण सह गच्छति। (मित्र)
तृतीया विभक्ति हेतु प्रत्यय-
पुल्लिंग- एन आभ्याम् ऐः
स्त्रीलिंग- अया आभ्याम् भिः
(क) बालकाः बालिकाभिः सह पठन्ति। (बालिका)
(ख) तडागः कमलैः विभाति। (कमल)
(ग) अहमपि कन्दुकेन खेलामि। (कन्दुक)
(घ) अश्वाः अश्वैः सह धावन्ति। (अश्व)
(घ) मृगाः मृगैः सह चरन्ति। (मृग)
6- अधोलिखितं वृत्तचित्रं पश्यत। उदाहरणानुसारेण कोष्ठकगतैः शब्दैः उचितवाक्यानि रयचत।
यथा- 1- रहीमः मित्रेण सह क्रीडति।
तृतीया विभक्ति-
पु- एन
स्त्री- अया
2- रहीमः द्विचक्रिकया आपणं गच्छति। द्विचक्रिका
3- रहीमः कलमेन पत्रं लिखति। कलम
4- रहीमः हस्तेन कन्दुकं क्षिपति। हस्त
5- रहीमः नौकया जलविहारं करोति। नौका
6- रहीमः चषकेन जलं पिबति। चषक
7- रहीमः तूलिकया चित्रं रचयति। तूलिका
8- रहीमः वायुयानेन ह्यः आगच्छत्। वायुयान
7-कोष्ठकात् उचितपदप्रयोगेण रिक्तस्थानानि पूरयत-
(क) धनिकः निर्धनाय धनं ददाति। (निर्धनम् / निर्धनाय) दान के लिए चतुर्थी विभक्ति
(ख) बालः पठनाय विद्यालयं गच्छति। (पठनाय / पठनेन) प्रयोजन के लिए चतुर्थी विभक्ति
(ग) सज्जनाः परोपकाराय जीवन्ति। (परोपकारम् / परोपकाराय) प्रयोजन के लिए चतुर्थी विभक्ति
(घ) प्रधानाचार्यः छात्रेभ्यः पारितोषिकं यच्छति। (छात्रणाम् / छात्रेभ्यः) प्रयोजन के लिए चतुर्थी विभक्ति
(घ) शिक्षकाय नमः। (शिक्षकाय / शिक्षकम्) नमः के साथ चतुर्थी विभक्ति
