8.2.2 कक्षा -अष्टमी, विषय:-संस्कृतम्, द्वितीयः पाठ: (बिलस्य वाणी न कदापि मे श्रुता ) Class-8th, Subject-Sanskrit, Lesson-2 (Bilasya Vaani N Kadapi Me Shruta) Abhyaas
8.2.2 कक्षा -अष्टमी, विषय:-संस्कृतम्,
द्वितीयः पाठ: (बिलस्य वाणी न कदापि मे श्रुता )
Class-8th, Subject-Sanskrit,
Lesson-2
(Bilasya Vaani N Kadapi Me Shruta)
Abhyaas
************************************
नमो नमः।
अष्टमकक्ष्यायाः रुचिरा भाग-3 इति पाठ्यपुस्तकस्य शिक्षणे स्वागतम् ।
अद्य वयं द्वितीय-पाठस्य अभ्यासकार्यं कुर्म: ।
पाठस्य नाम अस्ति
बिलस्य वाणी न कदापि मे श्रुता
अहं डॉ. विपिन:।
************************************
द्वितीयः पाठः बिलस्य वाणी न कदापि मे श्रुता
अभ्यास: (Exercise)
1-उच्चारणं कुरुत-
कस्मिंश्चित् एतच्छुृत्वा विचिन्त्य
क्षुधार्तः समाह्वानम् भयसन्त्रस्तमनसाम्
सिहपदपद्धतिः साध्विदम् प्रतिध्वनिः
2-एकपदेन उत्तरं लिखत-
(क)सिहस्य नाम किम्?
उत्तरम् - खरनखरः।
(ख) गुहायाः स्वामी कः आसीत्?
उत्तरम् - दधिपुच्छः / शृगालः ।
(ग)सिहः कस्मिन् समये गुहायाः समीपे आगतः?
उत्तरम् - सूर्यास्तसमये।
(घ) हस्तपादादिकाः क्रियाः केषां न प्रवर्तन्ते?
उत्तरम् -भयसन्त्रस्तमनसाम् ( भय-सन्-त्रस्त-मनसाम्)।
(ङ) गुहा केन प्रतिध्वनिता?
उत्तरम् - सिंह-गर्जनेन।
3-पूर्णवाक्येन उत्तरत-
(क) खरनखरः कुत्र प्रतिवसति स्म?
उत्तरम् - खरनखरः वने प्रतिवसति स्म।
(ख) महतीं गुहां दृष्ट्वा सिहः किम् अचिन्तयत् ?
उत्तरम् - महतीं गुहां दृष्ट्वा सिहः अचिन्तयत्- "नूनम् एतस्यां गुहायां रात्रौ कोsपि जीवः आगच्छति। अतः अत्रैव निगूढो भूत्वा तिष्ठामि।"
(ग) शृगालः किम् अचिन्तयत्?
उत्तरम् - शृगालः अचिन्तयत्- "अहो विनष्टोSस्मि। नूनम् अस्मिन् बिले सिहः अस्ति इति तर्कयामि। तत् कि करवाणि?"
(घ) शृगालः कुत्र पलायितः?
उत्तरम् - शृगालः गुहायाः दूरं पलायितः।
(ङ) गुहासमीपमागत्य शृगालः किं पश्यति?
उत्तरम् - गुहा-समीपम् आगत्य शृगालः सिंहपदपद्धतिं पश्यति।
(च) कः शोभते?
उत्तरम् - अनागतं यः कुरुते सः शोभते।
4-रेखांकितपदानि आधृत्य प्रश्ननिर्माणं कुरुत-
(क) क्षुधार्तः सिंहः कुत्रापि आहारं न प्राप्तवान्।
उत्तरम् - कीदृशः सिंहः कुत्रपि आहारं न प्राप्तवान्?
कीदृशः (कैसा)
(ख) दधिपुच्छः नाम शृगालः गुहायाः स्वामी आसीत्।
उत्तरम् - किं नाम शृगालः गुहायाः स्वामी आसीत्?
किम् (क्या)
(ग) एषा गुहा स्वामिनः सदा आह्वानं करोति।
उत्तरम् - एषा गुहा कस्य सदा आह्नानं करोति?
कस्य (किसका)
(घ) भयसन्त्रस्तमनसां हस्तपादादिकाः क्रियाः न प्रवर्तन्ते।
उत्तरम् - भयसन्त्रस्तमनसां कीदृशाः क्रियाः न प्रवर्तन्ते?
कीदृशाः (कैसी)
(ङ) आह्वानेन शृगालः बिले प्रविश्य सिंहस्य भोज्यं भविष्यति।
उत्तरम् - आह्वानेन शृगालः कुत्र प्रविश्य सिंहस्य भोज्यं भविष्यति?
कुत्र (कहाँ पर)
5-घटनाक्रमानुसारं वाक्यानि लिखत-
(क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
(ख) सिहः एकां महतीं गुहाम् अपश्यत्।
(ग) परिभम्रन् सिहः क्षुधार्ताे जातः।
(घ) दूरस्थः शृगालः रवं कर्त्तुमारब्धः।
(ङ) सिहः शृगालस्य आह्वानमकरोत्।
(च) दूरं पलायमानः शृगालः श्लोकमपठत्।
(छ) गुहायां कोsपि अस्ति इति शगृालस्य विचारः।
उत्तरम् -
1- (ग) परिभम्रन् सिहः क्षुधार्ताे जातः।
2- (ख) सिहः एकां महतीं गुहाम् अपश्यत्।
3- (क) गुहायाः स्वामी दधिपुच्छः नाम शृगालः समागच्छत्।
4- (छ) गुहायां कोsपि अस्ति इति शगृालस्य विचारः।
5- (घ) दूरस्थः शृगालः रवं कर्त्तुमारब्धः।
6- (ङ) सिहः शृगालस्य आह्वानमकरोत्।
7- (च) दूरं पलायमानः शृगालः श्लोकमपठत्।
6-यथानिर्देशमुत्तरत-
(क) ‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये कति विशेषणपदानि, संख्यया सह पदानि अपि लिखत?
उत्तरम् -
‘एकां महतीं गुहां दृष्ट्वा सः अचिन्तयत्’ अस्मिन् वाक्ये द्वे विशेषणपदे स्तः। तद्यथा
1- एकां
2- महतीं च।
(ख) ‘तदहम् अस्य आह्वानं करोमि’- अत्र ‘अहम्’ इति पदं कस्मै प्रयुक्तम्?
उत्तरम् -
‘तदहम् अस्य आह्नानं करोमि’- अत्र ‘अहम् पदं ‘सिंहाय’ प्रयुक्तम्।
(ग) ‘यदि त्वं मां न आह्नयसि’ अस्मिन् वाक्ये कर्तृपदं किम्?
उत्तरम् -
‘यदि त्वं मां न आह्नयसि’ अस्मिन् वाक्ये ‘त्वम्’ इति कर्तृपदम्।
(घ) ‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये क्रियापदं किम्?
उत्तरम् -‘सिंहपदपद्धतिः गुहायां प्रविष्टा दृश्यते’ अस्मिन् वाक्ये ‘दृश्यते’ इति क्रियापदम्।
(ङ) ‘वनेsत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये अव्ययपदं किम्?
उत्तरम् -‘वनेsत्र संस्थस्य समागता जरा’ अस्मिन् वाक्ये ‘अत्र’ इति अव्ययपदम्।
7-मञ्जूषातः अव्ययपदानि चित्वा रिक्तस्थानानि पूरयत-
कश्चन् दूरे नीचैः यदा तदा
यदि तर्हि परम् च सहसा
एकस्मिन् वने 1. कश्चन् व्याधः जालं विस्तीर्य 2. दूरे स्थितः। क्रमशः आकाशात् सपरिवारः कपोतराजः 3. नीचैः आगच्छत्। 4. यदा कपोताः तण्डुलान् अपश्यन्। 5. तदा तेषां लोभो जातः। परं राजा सहमतः नासीत्। तस्य युक्तिः आसीत् 6. यदि वने कोsपि मनुष्यः नास्ति। 7. तर्हि कुतः तण्डुलानाम् सम्भवः। 8. परम् राज्ञः उपदेशम् अस्वीकृत्य कपोताः तण्डुलान् खादितुं प्रवृत्ताः जाले 9. च निपतिताः। ‘अतः उक्त्तम् 10. सहसा विदधीत न क्रियाम्’।
-------------------
8.2.1
Comments
Post a Comment