Skip to main content

संस्कृत-दिवसस्य, रक्षाबंधनस्य च बहुशः शुभाशयाः (Sanskrit Divas and Raksha Bandhan Parv)


         श्रावणीपूर्णिमायां 
संस्कृत-दिवसस्य, रक्षाबंधनस्य च
       बहुशः शुभाशयाः!!


*येन बद्धो बलि राजा*
     *दानवेन्द्रो महाबलः।*
*तेन त्वां प्रति बद्धनोमि*
    *रक्षे मा चल मा चल।।*

अर्थात्- 
    जिस प्रकार रक्षा सूत्र से, महान् शक्तिशाली दानियों के राजा बलि को बांधा गया था, उसी प्रकार (रक्षासूत्र)  से मैं तुम्हें बांधता / बांधती हूँ, जो सदा रक्षा करेगा।
हे रक्षे! (रक्षासूत्र) तुम चलायमान न हो, चलायमान न हो।

यह श्लोक रक्षाबंधन का अभीष्ट मंत्र भी है। जिस रक्षासूत्र से महान शक्तिशाली दानवेन्द्र राजा बलि को बांधा गया था, उसी सूत्र से हम अपने संबंध बांधते हैं। हम अपने संकल्प से कभी भी विचलित न हों।
       अतः जो व्यक्ति श्रावण शुक्ल पूर्णिमा को अपनी भगिनी (बहन) से रक्षा सूत्र बंधवाएगा वह विजयी होकर इंद्र की भांति सुखी होगा। राखी संकल्प है भाई और बहन के बीच का। ये संकल्प है रिश्तों के बीच बुरे से बुरे समय में भी एक दूसरे के प्रति समर्पित रहने का।
                           --------------------------
*देश रक्षा समं पुण्यं,*
        *देश रक्षा समं व्रतं ।*
*देश रक्षा समं यागो,*
       *दृष्टो नैव च नैव च ।।*
अर्थात्-
     देश रक्षा के समान कोई पुण्य, कोई व्रत और कोई यज्ञ नहीं देखा गया है अर्थात देश रक्षा सर्वोपरि है ।।

  


                       
                       रक्षाबन्धनम्
                      (संस्कृतदिवसः)

       📜रक्षाबन्धनं श्रावणमासस्य शुक्लपूर्णिमायाम् आचर्य्यते । भ्रातृभगिन्योः पवित्रसम्बन्धस्य सम्मानाय एतत् पर्व  भारतीयाः आचरन्ति । निर्बलतन्तुना बद्धः भ्रातृभगिन्योः सबलसम्बन्धः भारतीयसंस्कृतेः गहनतायाः प्रतीकः । मानवसभ्यतायां विकसिताः सर्वाः संस्कृतयः प्रार्थनायाः माहात्म्यं भूरिशः उपस्थापयन्ति। आदिभारतीयसंस्कृतेः विचारानुगुणं भ्रातुः रक्षायै भगिन्या ईश्वराय कृता प्रार्थना एव रक्षाबन्धनम् ।


📜भविष्यपुराणकथानुसारम् - येन बद्धो बलिराजा, दानवेन्द्रो महाबल: । तेन त्वामपि बध्नामि रक्षे मा चल मा चल ।। इन्द्राणी इन्द्रहस्ते रक्षासूत्रं बध्नाति ।

📜पुराणकथानुसारम् - पौराणिके काले रक्षाबन्धनं भ्रातृभगिन्योः सम्बन्धे सीमितं नासीत् । पत्नी पतिं, गुरुः शिष्यं, ब्राह्मणः राजानं, व्यापारी स्वसाधनं, क्षत्रियः स्वशस्त्रं, कृषकः स्वकृषिसाधनं च रक्षासूत्रं बध्नाति स्म ।

📜दानवेन्द्रबलेः कथानुसारम् – बलेः लक्ष्म्याः च भ्रातृभगिनीसम्बन्धस्य कारणात् रक्षाबन्धनस्य आचरणम् ।

📜महाभारतकथानुसारम् – श्रीकृष्णस्य शिशुपालवधकाले प्रत्यावर्तितेन सुदर्शनचक्रेण हस्ते जातं व्रणं दृष्ट्वा द्रौपदी शाटिकाभागं विदीर्य श्रीकृष्णहस्ते बध्नाति । अनेन रक्षाबन्धनस्य आचरणम् । 

📖 बङ्गप्रान्तघटनानुसारम् - लॉर्ड् कर्ज़न् इत्यस्य भारतविरोधिनिर्णयस्य विरोधार्थं १९०५ तमे वर्षे क्रान्तिकारिभिः रक्षाबन्धनस्य सामूहिकोत्सवः आचरितः । तत्कालीना एका कविता अद्यापि श्रूयते –

"सप्त कोटि लोकेर करुण क्रन्दन, सुनेना सुनिल कर्ज़न दुर्जन;
ताइ निते प्रतिशोध मनेर मतन करिल, आमि स्वजने राखी बन्धन।"


📚 हुमायुकर्मावत्योः अनुसारम् - हुमायू कर्मावत्याः कथनानुसारं मेवाडप्रदेशस्य रक्षार्थं बहादुर शाह इत्यनेन सह युद्धं कृत्वा तं पराजयत । 


📋 राष्ट्रियपर्वत्वेन - भारतस्य परम्परा "सर्वजनहिताय सर्वजनसुखाय" अस्ति । अतः सहोदराणां रक्षया सह भगिन्यः देशरक्षायाः अपि चिन्तनं कुर्वन्ति । ये वीराः मातृभूमेः रक्षणार्थं स्वजीवनं समर्पयन्ति, तेषां रक्षायै, दीर्घायुकामनायै अपि भारतीयभगिन्यः ईश्वरं प्रार्थयन्ति ।


🖼️आधुनिकरक्षाबन्धनम् - पवित्रसम्बन्धः काल-क्षेत्र-व्यवस्थायाः उपरि आधीनः न भवति । ई-रक्षासूत्रस्य चित्राणि अन्तर्जाले प्राप्यन्ते । “भगिनी स्वभ्रातरं रक्षासूत्रं बध्नाति” इत्यस्य गतिमच्चित्राणि (gif) अपि अन्तर्जाले प्राप्यन्ते । विडियो-कॉन्फ्रेन्स-द्वारा अपि जनाः रक्षाबन्धनस्य उत्सवम् आचरन्ति ।


🔮 विदेशे रक्षाबन्धनम् - भारतीयाः यत्र यत्र निवसन्ति, तत्र तत्र भारतम् अपि निवसति । विदेशे ये भारतीयाः निवसन्ति, ते तस्मिन् देशे अपि रक्षाबन्धनस्य पर्व उत्साहेन आचरन्ति । धर्मैकतायाः, मानवैकतायाः, ईश्वरैकतायाः बोधपाठात्कम् उत्सवं ते विदेशेऽपि आचरन्ति ।


🇮🇳 भारते संस्कृतोत्सवत्वेन रक्षाबन्धनम्- संस्कृतोत्सवः विश्वस्मिन् प्रतिवर्षं श्रावणमासे सप्तदिनानि यावत् आचर्यते। श्रावणमासस्य शुक्लद्वादशीतः, भाद्रपदकृष्णतृतीयापर्यन्तं भारतसर्वकारेण संस्कृतसप्ताहःआचर्यते । भारतस्य विभिन्नेषु स्थानेषु संस्कृतप्रेमिणः संस्कृतोत्सवम् अत्युत्साहेन आचरन्ति । पाठशालासु, विद्यालयेषु, संस्कृतप्रचारकर्तृसंस्थासु च संस्कृतसप्ताहस्य विशिष्टम् आयोजनं भवति । नाटकानि, नृत्यानि, प्रदर्शिन्यः, पदयात्राः, संस्कृतगीतानां गायनम् इत्यादयः अनेके संस्कृत-कार्यक्रमाः आभारते भवन्ति ।
     **सकुटुम्बं रक्षाबन्धनोत्सवस्य हार्दिक्यः शुभकामनाः**  

Comments

Popular posts from this blog

छात्र-प्रतिज्ञा (संस्कृत) Student's Pledge (Sanskrit)

छात्र-प्रतिज्ञा (संस्कृत)  Student's Pledge (Sanskrit) भारतं अस्माकं देशः।  वयं सर्वे भारतीया:  परस्परं भ्रातरो भगिन्यश्च ।  अस्माकं देशः प्राणेभ्योsपि प्रियतर: ।  अस्य समृद्धौ विविध-संस्कृतौ च वयं गौरवम् अनुभवाम:।  वयं अस्य सुयोग्याः अधिकारिणो भवितुं सदा प्रयत्नं करिष्याम:।   वयं स्वमातापित्रो: शिक्षकाणां गुरुजनानां च सदैव सम्मानं करिष्याम:।  सर्वैः च सह शिष्टतया व्यवहारं करिष्याम:।  वयं स्वदेशं देशवासिनश्च प्रति विश्वासभाज: भवेम।  (वयं स्वदेशं  देशवासिनश्च प्रति कृतज्ञतया वर्तितुं प्रतिज्ञां कुर्म:।)  तेषां कल्याणे समृद्धौ च अस्माकं  सुखं निहितम् अस्ति। जयतु भारतम्। ------------------------------------------------------------  "भारत हमारा देश है!  हम सब भारतवासी भाई- बहन है!  हमें अपना देश प्राण से भी प्यारा है!  इसकी समृद्धि और विविध संस्कृति पर हमें गर्व है!  हम इसके सुयोग्य अधिकारी बनने का प्रयत्न सदा करते रहेंगे!  हम अपने माता पिता, शिक्षकों और गुरुजनों का सदा आदर करेंगे और  सबके साथ शिष्टता का व्यवहार करेंगे!  हम अपने देश और देशवासियों के प्रति वफादार रहने की प्रतिज्ञ

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)

संस्कृत-वाक्य-रचना (Sanskrit Vakya Rachna)  This Table can be useful to teach Students, How to make/Translate Sentences in Sanskrit..  (click to Zoom)                       1.   प्रथम पुरुष   1.1 पुल्लिंग-   बालक जा रहा है।   (वर्तमान-काल) बालकः गच्छति।  बालक पढ़ता है। बालक: पठति।  दो बालक पढ़ते हैं। (द्विवचन)  बालकौ  पठत:।  सभी बालक पढ़ते हैं। (बहुवचन)  बालका: पठन्ति।  बालक पढ़ेगा। (भविष्य-काल) बालक: पठिष्यति।  ("लट् लकार" में " ष्य " जोड़ने पर "लृट् लकार" का रूप बनता है यथा- पठति+ ष्य=  पठिष्यति) बालक गया। (भूत-काल) बालकः गच्छति स्म।   स्म " का प्रयोग किया  बालकः अगच्छत्।   लंङ् लकार (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट्  लकार" में " स्म " का प्रयोग किया जा सकता है।)  बालक ने पढ़ा। बालकः पठति स्म।  (भूतकाल के लिए "लंङ् लकार" के स्थान पर  " लट् लकार" में " स्म " का प्रयोग किया जा सकता है।)  सभी बालकों ने पढ़ा। बालकाः पठन्ति स्म।    वह पढ़ता है। सः पठति। कौन पढ़ता है। कः पठति।  आप पढ़ते

पिपासितः काकः (Thirsty Crow) Sanskrit Story

    पिपासितः  काकः (Thirsty Crow)  Sanskrit Story           एकदा एकः काकः  पिपासितः  आसीत्।  सः जलं पातुम्  इतस्ततः  अभ्रमत्। परं  कुत्रापि  जलं न प्राप्नोत्।  अन्ते सः एकं घटम् अपश्यत्।  घटे  स्वल्पम्  जलम् आसीत्।  अतः सः जलम्  पातुम्  असमर्थः अभवत्।  सः एकम्  उपायम्  अचिन्तयत्।  सः  पाषाणस्य  खण्डानि घटे अक्षिपत्। एवं क्रमेण घटस्य जलम्  उपरि  आगच्छत्।  काकः जलं पीत्वा  संतुष्टः  अभवत्।  परिश्रमेण एव  कार्याणि  सिध्यन्ति न तु मनोरथैः।